भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 664, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 664

[ अधि - १८. सू - ४३. ] दीपिकासहितम्. ६१७ ( ४ ) तथा च पाराशर्यायणश्रुतिः— अंशो ह्येष परस्य योऽयं पुमानुत्पद्यते च म्रियते च नाना ह्येनं व्यपदिशन्ति । पितेति पुत्रेति भ्रातेति सखे ति च, इति । ( ५ ) 'अन्यः परोऽन्यो जीवो नासावस्य कुतश्चन । नायं त दृष्टत्वात् । तत्त्वप्रदीपे तु याः 'सतीः' निर्दुष्टाः स्त्रियो वेदाभिमानिन्य स्तान् परमपुरुषानाहुः वेदादिशब्दैर्ज्ञानिनः, श्रुतिरित्यादिस्त्रीलिङ्गश ब्दवाच्या एव मद्दृष्टाः वेदाभिमानिदेवताः वेद इत्यादिपुंलिङ्गशब्दवा च्यानाहुरिति यावत् । अभिमानिन्यपेक्षया चायं व्यपदेशः । 'अक्षण्वा न्' ज्ञानदृष्टिमानेव तान् पश्यति नाज्ञानी । यः कविः 'पुत्रो' ब्रह्मा स एव 'यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै' ( श्वे. ६-१८. ) इति श्रुतेः । 'तेने ब्रह्म हृदा य आदिकवये' इत्यादिस्मृतेश्च । 'आ' समन्ताद्वेद यः तानि छन्दांसि विशिष्टत्वेन जानाति साक्षाद्विष्णुवाचकत्वेन सः 'पि तुः' विष्णोः पिता भवति । व्यञ्जकत्वाच्छन्दसां तज्ज्ञत्वात्पुरुषस्येति भाव इति वेदाभिमानिदेवतापरतया व्याख्यातम् । 'द्वा सुपर्णा' इत्या थर्वणश्रुतिस्तु द्युभ्वाद्यधिकरणे व्याख्याता ॥ ( ४ ) यन्नानाव्यपदेशादंशो जीव इति सूत्रकृदाह, तत्र श्रुतिं चा ह—तथा चेति ॥ चशब्दो भिन्नक्रमः । न केवलं सूत्रकृतैव नानाव्यप देशेनांशत्वं साधितम्, किन्तु श्रुत्याऽपीति चशब्दार्थः । तां श्रुतिं पठ ति—अंश इति । हिशब्दः प्रसिद्धौ । एष इति क इत्यपेक्षायामाह— य इति । तथा च य उत्पत्तिनाशवान्पुरुषः प्रसिद्धोऽयं जीवः परमा त्मनोंश इति प्रतिज्ञार्थः । चशब्दौ परस्परसमुच्चये । कुत इत्यत आ ह—नानेति । हि यतः 'एनं' जीवं परस्य पितेत्यादिनानाप्रकारेण व्य पदिशन्ति वेदा अत इत्यर्थः । इतिशब्दाः प्रकारवचनाः । चशब्दो द्वि र्गृहीतः सर्वत्रान्वितः प्रकाराणां परस्परसमुच्चयमाह । इतीत्यस्य इ ति पाराशर्यायणश्रुतिरिति पूर्वेणान्वयः ॥ ( ५ ) हेत्वन्तरेणांशत्वं समर्थयते—अन्यथेति ॥ तमंशं व्याख्या ति—अन्य इति । टीकायामन्य इतीति प्रायिकः पाठः । अन्यथेतीति पाठः सूत्रांशप्रतीकग्रहणरूपः स्वरसः । ' अन्यथा च' वक्ष्यमाणाभे ७८

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 664, कुल 1267 में से · BharatKosha