भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 678, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 678

[ अधि - १८. सू - ४९. ] दीपिकासहितम्. ६३१ अदेहबन्धयोग्यत्वाद्यथा सूर्यप्रभाऽक्षिणी । यथाऽमृतसमुद्रस्य श्लेष्मादेश्च द्विरूपता ॥ अनुग्राह्यत्वमन्यस्य तेनैवावृतिरोधनम् ॥ इति ॥ ४८ ॥ ( २८ ) सू—ॐ ॥ असन्ततेश्चाव्यतिकरः ॥ ॐ ॥ ४९ ॥ अपूर्णशक्तित्वाच्च जीवस्य न मत्स्यादिसाम्यम् । ( २९ ) तथा च चतुर्वेदशिखायाम्— ‘ तस्य ह वा एतस्य परमस्य त्रीणि रूपाणि कृष्णो रामः कपिल इति । तस्य ह वा एतस्य परमस्य पञ्च न सङ्गृहीताः । अनेन देहसम्बन्धित्वहेतोस्तत्र भागासिद्धिश्श्च परिहृ- ता । अदेहेति । देहसम्बन्धायोग्यत्वादित्यर्थः । अनुमानद्वये व्युत्क्रमे- ण दृष्टान्तमाह—यथेति । सूर्यप्रभा चाक्षि चेति विग्रहः । नैकप्रकारे इति शेषः । ‘ अमृतसमुद्रस्य ’ शुद्धोदकसमुद्रस्य ‘ द्विरूपता ’ भिन्नप्रकारता । ‘ अन्यस्य ’ अक्षिश्लेष्मादेः भिन्नांशस्य ‘ तेनैव ’ अंशि- नैव आवृत्तिः तमःपित्तादिः । तस्य रोधनं निवृत्तिर्भवतीत्यर्थः । इति वाराहे इत्यन्वयः । सूत्रोक्तमुक्तमिति शेषः ॥ ( २८ ) युक्त्यन्तरेण मत्स्यादीनां जीवानां चैकविध्यं पराकुर्वत्सूत्रं पठित्वा व्याचष्टे—असन्ततेश्चेति ॥ अपूर्णशक्तित्वादित्यनेनासन्ततेरि- त्यस्य सम्यक्कृतिः सन्ततिः पूर्णता शक्त्येति योग्यतयाऽन्वये नञ्स- म्बन्धे चापूर्णशक्तित्वादित्यर्थ उक्तः । सूत्रे भाष्ये चशब्दो न केवलमी- शाधीनप्रवृत्तितदभावादिना जीवानां मत्स्यादीनां च नैकविधता, कि- न्त्वसन्ततेश्चेति युक्तिसमुच्चये । अनुवृत्तपदस्यार्थमाह—जीवस्येति । ‘ न मत्स्यादिसाम्यम् ’ सर्वसाम्यमिति । अनेनाव्यतिकर इत्यस्य नैवं पर इत्युक्तस्य व्यत्यासाभाव इति वा, जीवानां मत्स्यादीनां च शास्त्रो- क्तस्वरूपस्याव्यत्यास इति वार्थ उक्तो भवति ॥ ( २९ ) मत्स्यादीनां पूर्णशक्तित्वं, न जीवस्येत्येतत्कुत इत्यत आह- तथा चेति ॥ परावरभेदेन चेतनद्वैविध्यमभिधाय तत्र परो नारायण इत्यप्यभिधाय तस्य व्यूहरूपाण्युच्यन्ते—तस्येत्यादिना । ‘ तस्य ’ प्र- सिद्धस्य ‘ एतस्य ’ प्रकृतस्य ‘ परमस्य ’ नारायणस्य कृष्णो रामः क- पिल इति त्रीणि रूपाणीत्यन्वयः । तस्येत्यादेः सर्वत्रान्वयग्रहणा- य द्विर्ग्रहणम् । कृष्णादित्रयं कश्चन व्यूहः । न तु ‘ पञ्चात्मकः ’ इत्युक्तसप्तव्यूहान्तर्गतम् । केचित्त—कृष्णादिकस्तु न व्यूहः ना