पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 707, कुल 1267 में से
संदर्भ में पढ़ें६६० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] ( ५ ) सर्वकर्ताऽपि सन्प्राणः परमाधारतःस्थितः । कथमेवान्यथा स स्याद्यतो नैवेश्वरद्वयम् ॥ ( ६ ) अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् । अतो मध्यममाहुस्तस्य वेदेषु वेदिनः ॥ ( ७ ) अनन्येश्वरता प्राणे तदन्येश्वरवर्जना । हीति । 'हि' यस्मात् 'सः' परमात्मा 'एक एव' स्वतन्त्र एव 'एता न्' प्राणादीन् 'नयति' जन्मादिकं प्रापयति 'उन्नयति' ऊर्ध्वं नय ति मोचयतीति यावत् । 'वशीकरोति' स्ववशवर्तिनः करोतीति ॥ ( ५ ) ननु प्राणस्वातन्त्र्येऽखिलचेष्टकत्वयुक्तियुक्तायाः 'न प्राणः किञ्चिदाश्रितः' इति श्रुतेः सद्भावात् 'प्राणः परवशे स्थितः' 'सर्वं ह्येतत्' इति श्रुतिमात्रेण न पारतन्त्र्यनिर्णय इत्यत आह—सर्वेति ॥ अपिर्यद्यपीत्याद्यर्थे, विशेषणसमुच्चये वा । 'परमाधारतः' परमात्मा धारकत्वेन स्थितः । तथा च स्वभिन्नसर्वचेष्टकत्वाभ्युपगमान्न युक्ति विरोध इति भावः । तर्हि 'प्राणादिदमाविरासीत्प्राणो धत्ते' इति स र्वेश्वरत्वापरपर्यायसर्वकर्तृत्वश्रुत्या 'न प्राणः किञ्चिदाश्रितः' इत्यन न्याश्रयत्वश्रुत्या च विरोध इत्यत आह—कथमिति । 'अन्यथा' पर मात्माधारत्वं विना 'सः' मुख्यप्राणः कथमेव स्वतन्त्रस्स्यात्, न क थंचित् । कुतः? यतो मुख्यप्राणस्वातन्त्र्याङ्गीकारे 'सर्वं ह्येतत्परमेऽव तिष्ठते' इति श्रुत्युक्तभगवत्स्वातन्त्र्यस्य हातुमशक्यत्वेन ईश्वरद्वय मङ्गीकार्यम्, तच्चानुपपन्नम्, अन्योन्यानुरोधाननुरोधयोः सर्वैश्वर्यहा नेः, अतः। तथा च ईश्वरद्वयानुपपत्तिरूपयुक्तिविरोधात् सर्वेश्वरत्वा नन्येश्वरत्वश्रुतिर्बाध्येत इति भावः ॥ ( ६ ) ननु श्रुतेर्बाधायोगात् अर्थान्तरं वक्तव्यम्, स क इत्यत आ ह—अवान्तरेति ॥ मध्यमेश्वरत्वरूपवाच्येन निमित्तेनेत्यर्थः । 'तस्य' मुख्यप्राणस्य 'ईश्वरवचः' ईश्वरत्वबोधकं 'प्राणो धत्ते' इत्यादिसर्वे कर्तृत्ववचनम् । ननु मुख्येश्वरत्वमेव तदर्थः किं न स्यादित्यत आह- अत इति । अवान्तरेश्वरत्वादेव 'तस्य' मुख्यस्य 'वेदिनां' ज्ञानिनः वृद्धाः 'वेदेषु' 'मध्यमः प्राणो' 'मध्ये स्थाता' इत्यादिरूपेषु 'म ध्यमतां' प्राहुरित्यर्थः । अन्यथा तन्न स्यादिति भावः ॥ ( ७ ) एवमीश्वरश्रुतेर्गतिमुक्त्वा अनन्येश्वरत्वश्रुतेरपि गतिमाह-