पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 714, कुल 1267 में से
संदर्भ में पढ़ें[अधि - ९. सू - १४.] दीपिकासहितम्. ६६७ ( ३ ) 'अणुर्नैतत्सृज्यते अणुर्नैतद्धार्यते अणौ लयमभ्युपैति प्राणो वा अणुः प्राणैर्हीतद्भवति' इति च सौत्राय णश्रुतिः ॥ ( ४ ) अत आह - सू - ॐ ॥ अणुश्च ॥ ॐ ॥ १४ ॥ 'स वा एष प्राणोऽणुर्महान् नामान्तर्वा अणुर्बहिर्महान् । प्रा णो वा ईशितव्येश ईशो ह्यसौ सर्वस्येशितव्यश्च पर धात् । मरुत्सु प्रधाना ये सप्त मरुतः तेषां स्कन्धगतो मुख्यवायुः लोकान् बिभर्तीति व्याख्यानमप्युक्तप्रमाणविरुद्धम् । एतेन महदहङ्कारपञ्चभू ताख्यसप्तस्कन्धगत इत्यर्थ इति पक्षोऽपि निरस्तः ॥ ( ३ ) एवं व्याप्तिश्रुतिं प्रदर्श्याणुत्वश्रुतिं दर्शयति - अणुनेति ॥ 'ए तत्' शरीरं जगद्वा । अणुः क इत्यत आह - प्राणो वेति । अत्रोक्तोऽ णुः श्रेष्ठः प्राणः कुतः, अन्यः किं न स्यादित्यतो जगत्स्रष्टृत्वादिकमु क्तम् । तस्योपनयमाह - प्राणैर्हीति । हिः प्रसिद्धौ यत इत्यर्थे च । 'एतत्' जगत्स्रष्टृत्वादिकम् । श्रुतिरित्यनन्तरमणृत्वं वक्तीति शेषः । अनेन प्रबलव्याप्तिश्रुतिविरोधादणुत्वश्रुतिरप्रमाणमिति पूर्वपक्षस्सू चितः ॥ ( ४ ) सिद्धान्तयत्सूत्रमवतारयति - अत इति ॥ सूत्रे चशब्द ए वार्थो व्याप्तत्वसमुच्चयार्थश्च । श्रेष्ठ इति चानुवर्तते । तथा च श्रेष्ठो मु ख्यप्राणरूपेणाणुरेव । न च व्याप्तिश्रुत्यादिविरोधः । यतो न केवलम णुः, किन्तु बहिर्देहाद्वर्तमानेन मुख्यप्राणरूपेणाण्डादिव्याप्तश्च, अत इ ति सूत्रार्थः । कुतोऽयं विशेष इत्यत आह - स इति । वै नामेति निपा तौ प्रसिद्धयर्थौ । 'एष प्राणो' मुख्यप्राणोऽणुर्महांश्च भवति । न चैक स्मिन्नुभयोर्विरोध इत्यत आह - अन्तरिति । देहस्यान्तरणुः हृदयसु षिरस्थ सूक्ष्मत्वादिति तत्त्वप्रदीपोक्तेः । तथा च अध्यात्मगतप्राणरूपे णाणुरित्यर्थः । 'बहिः' देहात् । तथा चाधिदैवगतवायुरूपेण 'महा न्' व्याप्त इत्यर्थः । तत्र बहिर्देहत एव व्याप्तिः, अन्तस्तु प्राणस्य देह तोऽप्यणुत्वमिति विवेकः । नन्वत्र श्रुतः प्राणो मुख्य इति कुत इत्यतो वाक्यशेषादित्याशयेन तमुदाहरति - प्राण इति । वै प्रसिद्धौ । ईशित व्यश्चासावीशश्चेति विग्रहः । तदुभयं विवृणोति - ईश इति । 'हि' यतः 'असौ' मुख्यः 'सर्वस्य' स्वपरमात्मातिरिक्तस्य जगतः 'ईशः'