पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 717, कुल 1267 में से
संदर्भ में पढ़ें६७० ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - ४.] ति । ‘यः प्राणे तिष्ठन्’ (बृ. ५ - ७ - १६.) इत्यादि तदामनात् ॥ १५ ॥ ( ४ ) कथं जीवकरणत्वश्रुतिरित्यता वक्ति— सू—ॐ ॥ प्राणवता शब्दात् ॥ ॐ ॥ १६ ॥ जीवेनैव स्वकरणैः कारयति परमात्माऽतो न विरोधः । ( ५ ) ‘एष ह्येनेनात्मना चक्षुषा दर्शयति श्रोत्रेण श्रावयति मनसा मनयति बुद्ध्या बोधयति तस्मादेतावाहुः श्रुति न्द्रियपरो वा इन्द्रियमात्रपरो वा भवति । तथाऽप्यधिकार्थलाभादपौ नरुक्ताच्चेन्द्रियमुख्याभिमानिप्रधानवायुपरो व्याख्येयः । अत एव टीकायां मुख्यप्राणेत्युक्तम् । प्रमेयदीपेऽप्यमुख्यमुख्यसाधारण्येन ग्रा ह्येन्द्रियदेवतापरोऽयमित्युक्तम् । ननु सूत्रे भूतक्रमेणोक्तौ आकाशाद्य धिष्ठानमिति वाच्यम् । श्रौतक्रमेण चेत्, पृथिव्याद्यधिष्ठानमिति । तदुभयं विहाय ज्योतिरादीति कथं निर्देश इति चेत्-न, पूर्वसूत्रे चक्षु रादिवदिति, ‘ब्रह्मणो वा’ (काषायण.) इति श्रुतौ चक्षुरिति, ‘एषः’ इति वक्ष्यमाणश्रुतौ च चक्षुषेति चक्षुष आदित्वेन प्रकृतत्वात्तद्विवक्षया चक्षुरादीत्युक्तत्वात् । अत एव भाष्ये द्वितीयश्रुत्यनुसाराद्रूप्येत्युक्तम् ॥ ( ४ ) प्राणवतेतिसूत्रं तन्निरसनीयशङ्काप्रदर्शनपूर्वकमवतारयति- कथमिति ॥ तर्हीति शेषः । तथाच यदि प्राणानां ब्रह्मकरणत्वं तर्हीत्य र्थः । श्रुतिरित्यनन्तरमुपपद्यत इति शेषः । किन्तु ब्रह्मकरणत्वस्य त द्विरोध एव भवेदिति वाक्यशेषः । सूत्रं व्याचष्टे—जीवेनेति । एव कारो भिन्नक्रमः । सूत्रे करणैस्स्वकरणैरेव, न तु जीवकरणैरित्यव धारणार्थकतूशब्दोऽन्वितः । सूत्रानुषक्तं तदिति पदं ‘एषः’ इति श्रुत्य नुसाराल्लिङ्गविपरिणामेन परमात्मेति व्याख्यातम् । दर्शनादीति इति श्रुतेरर्थ इति च शेषः । जीवेनेत्यनेन प्राणवता इन्द्रियवता जीवेनेति प्राणवतेत्यस्यार्थ उक्तः । न विरोध इति सूत्रे शेषोक्तिः । तथा च यतो ‘जीवस्य करणानि’ इति श्रुतेः स्वकरणैरेव प्राणैः परमात्मा जीवेना मुख्यकर्त्रा दर्शनादि कर्म कारयतीत्यर्थो युक्तः । अतः प्राणानां ब्रह्मकर णत्वोक्तेः जीवकरणत्वश्रुतिविरोधो नेत्यर्थः ॥ ( ५ ) ब्रह्म इन्द्रियैः जीवेन दर्शनादि कारयतीत्येतत्कुत इत्यतस्तत्र हेतुत्वेन शब्दादित्यंशं व्याचष्टे—एष इति ॥ ‘हि’ यस्मात् ‘एषः’ परमा त्मा जीवस्य स्वाधीनतया किञ्चिदिन्द्रियस्वामित्वं दत्वा एतेनानेन