पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 719, कुल 1267 में से
संदर्भ में पढ़ें६७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] (८) सू—ॐ ॥ तस्य च नित्यत्वात् ॥ ॐ ॥ १७ ॥ अनादिनित्यत्वाज्जीवकरणसम्बन्धस्य युज्यते तत्कर णत्वश्रुतिः । (९) ‘अथावियोगीनि करणैर्वाव न वियुज्यते देहेनैव वियु ज्यते इत्येतद्भाव करणानां करणत्वं यद्भाव न वियुज्य त्वं परमेश्वरदत्तजीवप्रयोज्यत्वरूपजीवकरणत्वसहितब्रह्मकरणत्वमि न्द्रियाणां ‘अकरणत्वात्’ इति सूत्रे चशब्देन विवक्षितमिति तस्य च मुख्येऽनभ्युपगमात् न तस्याकरणत्वोक्तिविरोध इति भावः । इति वाराहे उक्तमिति शेषः । अस्यातो न विरोध इति पूर्ववाक्यानुवृत्त्या ऽन्वयः ॥ (८) एवं भगवदधीनान्यपीन्द्रियाण्यस्वतन्त्रजीवकर्तृके कर्मणि साधनत्वात्तत्करणानीत्युच्यन्ते, यथा परकीयकुठारेणापि घ्नंस्ततोऽसौ तत्करणमुच्यत इत्येवं मुख्यमर्थं जीवकरणत्वश्रुतेरुक्त्वा मुख्यार्थान्त रप्रतिपादकं सूत्रं पठित्वा व्याचष्टे—तस्य चेति ॥ सूत्रे नित्यत्वादि त्युपलक्षणम् । अनेन नाशाभावोक्तावपि उत्पत्त्यभावस्यालाभादित्या शयेनानादीत्युक्तम् । मुक्तिपर्यन्तं सदा विद्यमानत्वादित्यर्थः । न के वलं जीवकर्तृके कर्मणि इन्द्रियाणां साधनत्वादिति चशब्दार्थः । अने न चशब्दो भिन्नक्रमो निमित्तसमुच्चयार्थ इति सूचितम् । जीवकरण सम्बन्धस्येत्यनेन तस्येति पदं व्याख्यातम् । युज्यत इत्यादिना साध्या ध्याहारस्सूचितः । ‘तत्करणत्वश्रुतिः’ ‘जीवस्य करणानि’ इति जीवक रणत्वश्रुतिरित्यर्थः । तथा च परकीयेऽपि बहुकालसम्बन्धिनि वस्तु नि उपचारस्तदीयत्वव्यवहारदर्शनादत्रापि भगवदीयेष्वपीन्द्रियेषु बहुकालीनजीवसम्बन्धितामादाय तत्करणत्वश्रुतिः प्रवृत्तेति श्रुतेरुपच रितार्थत्वमिति भावः ॥ (९) अनादिकालीनसम्बन्धनिमित्तेयमिन्द्रियाणां जीवकरण त्वश्रुतिरित्युक्त कुत इत्यत आह—अथेति ॥ प्रमेयान्तरारम्भार्थोऽथेति शब्दः । ‘अवियोगीनि’ जीवेनेति शेषः । कुत इत्यत आह—‘करणैः’ इन्द्रियैरिति । वावेति प्रसिद्धौ न वियुज्यते जीवः, तर्हि कथं मृतिरि त्यत आह—देहेनेति । न करणैरित्येवार्थः । एवं जीवकरणसम्बन्ध स्यानादिनित्यत्वमुक्त्वा तस्य जीवकरणत्वव्यवहारनिमित्त वमुपपा दयति—इत्येतदिति । इति वाक्यबोध्यमित्यर्थः । ‘करणानां करणत्वं’