पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 722, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ११. सू - १८. ] दीपिकासहितम्. ६७५ ( २ ) अतो वक्ति— सू—ॐ ॥ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ ॐ ॥ १८ ॥ मुख्यप्राणमृते त एवेन्द्रियाणि ॥ ( ३ ) द्वादशैवेन्द्रियाण्याहुः प्राणो मुख्यस्त्वनिन्द्रियम् । द्रवतामिन्द्रियाणां हि नियन्ता प्राण एकराट् ॥ इति पौत्रायणश्रुतिः । अतः सर्वेऽपि प्राणाः इन्द्रियाणीति साध्याध्याहारेणावृत्त्या योजनायां पूर्वपक्षः प्रदर्शितो भवति । तत्र हेत्वसिद्धिपरिहाराय सामान्येनेत्यु क्तम् । तथा च यतः श्रुतिः ‘सामान्येन’ साधारण्येन सर्वेषामिन्द्रि यत्वं वक्ति, अतो नासिद्धिरिति भावः । ननु विशेषश्रुतित्वात् द्वाद शत्वश्रुत्या बाधितेयं त्रयोदशत्वश्रुतिरित्यत आह—सयुक्तिकेति । य त इयं श्रुतिः ‘सयुक्तिका’ इदंद्रवणरूपयुक्तियुक्ता तद्वादिनी अतः प्राबल्यान्न बाधितेति भावः । नन्वन्यतमस्य निवारणेन द्वादशानामेवे न्द्रियत्वनिर्धारणसम्भवात् कथमयं पूर्वपक्ष इत्यत आह—अत इति । यतः सामान्येनेन्द्रियत्वेदंद्रवणयोर्वचनमस्ति, अतः कस्य प्राणस्ये न्द्रियत्वं ‘निवार्यते’ न कस्याप्यशक्यत्वात् इत्यर्थः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अन्यत्र श्रे ष्ठादित्यस्यार्थो—मुख्यप्राणमृत इति । मुख्यप्राणादन्ये प्राणा इत्यर्थः। पूर्वसूत्रात्तुवृत्तचशब्दस्य एवेत्यर्थ उक्तः। ते श्रुत इति चावर्तते । एक मिति चाध्याह्रियते । तथा च ‘एकमृते’ विनैव ‘ते’ श्रुत्युक्ताः प्रा णाः ‘इन्द्रियाणि’ द्वादशैवेन्द्रियाणि, न तु सर्वे प्राणा इत्यर्थः । तत्र कस्य व्यावृत्तिरित्यत आह—मुख्येति । तथा च मुख्यप्राणमेकमृतेऽ न्ये प्राणाः इन्द्रियाणि, न तु मुख्यप्राणोऽपीत्यर्थः ॥ ( ३ ) कुत इत्यतस्तत्र हेतुत्वेन तद्व्यपदेशादित्येतद्व्याचष्टे—द्वा दशैवेति ॥ ‘हि’ यस्मात् इति विशेषश्रुतिरस्ति तस्मान्मुख्यप्राणमृते ऽन्य एवेन्द्रियाणि न तु मुख्योऽपीत्यर्थः । श्रुत्यर्थस्तु-इन्द्रियाणि द्वाद शैवेत्याहुः, न तु त्रयोदशेति।अत्र कस्य व्यावृत्तिरित्यत आह-प्राण इति। मुख्यप्राणस्त्वित्यन्वयः । तुशब्दो विशेषार्थः । इत्याहुरित्यस्ति । नन्वि दंद्रवणवतः तस्य कथमिन्द्रियत्वाभाव इत्यत उक्तम्—द्रवतामिति। गच्छतामित्यर्थः । विषयं प्रतीति शेषः । ‘नियन्ता’ स्वामी ‘एकराट्’ स्वतन्त्रः । तथा च मुख्ये इदंद्रवणादिति हेतुरसिद्ध इति भावः । तुरे