पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 731, कुल 1267 में से
संदर्भ में पढ़ें६८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] ति च श्रुतिः । ( ४ ) अतो ब्रवीति— सू—ॐ ॥ मांसादिभौमं यथाशब्दमितरयोश्च ॥ ॐ ॥ २२ ॥ वीकार्यत्वासिद्धिः । अनेन शरीरं पार्थिवमित्यपरः पूर्वः पक्षः प्रदर्शितो भवति । एवं शरीरस्य तैजसत्वपूर्वपक्षेऽपि 'सोऽग्नेर्देवयोन्या आहुति- भ्यः सम्भूय हिरण्यशरीर ऊर्ध्वः स्वर्गं लोकमिति' ( ऐ.ब्रा.७-४.) इति बह्वृचब्राह्मणवाक्यमुदाहर्तव्यम् । 'सः' यजमानो देवेभ्यः स्वदत्ताहु- तिप्रदानेन देवपोषकत्वेन 'देवयोन्याः' देवमुखादग्नेः स्वेन दत्ताहुति- भ्यां निमित्तेभ्यो हिरण्यशरीरः 'सम्भूय' भूत्वा 'ऊर्ध्वः' ऊर्ध्वगतिस्सन् स्वर्गं लोकमेतीति श्रुत्यर्थः । एवं शरीरस्य भूतत्रयात्मकत्वेऽपि 'इमा स्तिस्रो देवताः पुरुषं प्राप्य' ( छा.६-४-७.) इत्यादिश्रुतिरुदाहर्तव्या । 'इमाः' तेजोऽबन्नात्मिकाः तिस्रो देवताः ॥ ( ४ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे— अत इति ॥ यतोऽनेकधा विरुद्धश्रुतिरस्ति । यतश्च देहस्य भूतत्रयात्मकत्वश्रुतेः एकैकभूतोपा- दानकत्वश्रुतिविरोधेनाप्रामाण्ये तन्न्यायेन जगत्कारणत्वश्रुतेरप्यप्रा- माण्यान्न तया विष्णोर्जगत्कारणतासिद्धिः, अतस्तन्निराकरणार्थं सि- द्धान्तमाह— सूत्रकार इत्यर्थः । इति श्रुतेरित्यनेन यथाशब्दमिति या श्रुतिः सूचिता, यच्च श्रुतेरङ्गीकारहेतुत्वं सूचितं तद्विवृतं भवति । तेन विपक्षे श्रुतिविरोध उक्तः । ब्राह्मणे 'यत्कठिनं' मांसादि सा पृथिवी । 'यद्द्रवं' शोणितादि तदापः । 'यदुष्णं' मज्जादि तत्तेज इति श्रुत्यर्थः । मांसादीति शोणितादिमज्जादीत्यनयोरुपलक्षणम् । अतएव टीकायां श- रीरेऽस्ति शोणितमज्जादीत्युक्तम् । तत्र प्रत्येकमादिशब्दान्वयः । अस्थि शोणितेत्यपपाठः । सूत्रे मध्यमधातुजन्यत्वेन मांससमयोः शोणितमज्- योरैव ग्राह्यत्वात्, अस्तीति क्रियापदस्यैव अपेक्षितत्वाच्च । तत्र प्रथमा- दिशब्देन मनःपुरीषयोर्ग्रहणम् । द्वितीयेन मूत्रप्राणयोः, तृतीयेनास्थि- वाचोर्ग्रहणम् । एवेत्यनेन पूर्वसूत्रादेवार्थस्य तुशब्दस्यानुवृत्तिस्सूचि- ता । चार्थो वा एवकारः। भौममित्येतत् आप्यं तैजसमित्यनयोरुपलक्ष- णम् । अत्र सर्वत्र तत्त्वप्रदीपोदाहृता सूत्रे यथाशब्दमित्यनेन सूचिता भाष्ये श्रुतेरित्यनेनोपलक्षिता टीकायामपि यथाशब्दत्वादित्यनेनोक्ता 'अन्नमशितं त्रेधा विधीयते तस्य यस्स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमः तन्मांसं योऽणिष्ठस्तन्मनः' ( छा.६-५-१. ) इति तथा 'अ-