पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 759, कुल 1267 में से
संदर्भ में पढ़ें७१२ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - १. ] (२) आचार इति सम्प्रोक्तः कर्माङ्गत्वेन शुद्धिदः। अशुद्धिदस्त्वनाचारः चरणं तूभयं मतम्॥ इति स्मृतेरिति चेन्न, यज्ञाद्युपलक्षणार्था चरणादिश्रु तिरिति कार्ष्णाजिनिर्मन्यते ॥ १० ॥ भवतीत्यनेन पूर्वपक्षप्रतिज्ञा सूचिता॥ (२) ननु यज्ञादिकर्मण एव श्रुतिस्थचरणशब्दोक्तत्वात् कथं इति श्रुतेश्चरणफलं गतागतं, न यज्ञादिफलमित्युक्तिरित्यत आह—आचार इति॥ यः कर्माङ्गत्वेन प्रोक्तः स आचारः स क्रियाद्रव्यतत्कर्तृशु द्धिदः। अनाचारस्त्वशुद्धिदः। आचारानाचाराख्यं तदुभयमपि चर णशब्दवाच्यं मतमित्यर्थः। इति स्मृतेरित्यस्य इति श्रुतेश्चरणफलमेवे ति सहेतुकप्रतिज्ञयोक्तं युक्तमित्यध्याहारेणान्वयः। सिद्धान्तांशं व्या चष्टे—नेति। गतागतस्य कर्मफलत्वाभावो नेत्यर्थः। किन्तु यज्ञादिक र्मफलमेव गतागतमिति वाक्यशेषः। कुत इत्यतस्तत्र 'नान्यः पन्था अयनाय विद्यते' (तै.आ.३-१३०) इति श्रुत्या गतागतशून्यफलस्य कर्म साध्यत्वनिषेधात्तत्फलस्य च परिशेषाद्गतागतवत्फलत्वप्राप्तेः 'इष्टा पू र्तम्' (मु.१-२-१०.) इत्यादिवचनाच्चेति हेतुं बहिरेवाभिप्रेत्य तर्हि 'र मणीय' इति श्रुतिविरोध इत्यतस्तदुत्तरत्वेन श्रुतिगतिप्रदर्शकतया त दित्यादिकं योजयति-यज्ञादीति। तच्छब्दार्थोक्तिरियम्। आदिपदात्पू र्तादिग्रहणम्। चरणादिश्रुतिरिति। चरणादिपदघटितश्रुतिरित्य र्थः। आदिपदात् 'अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूमम भिसम्भवन्ति' (छा.५-१०-३.) इति श्रुतिर्गृह्यते। श्रुतिरित्यनन्तरमतो न विरोध इति शेषः। तथा च यतश्चरणादिश्रुतिः 'तदुपलक्षणार्था' तस्य यज्ञादेरुपलक्षणं ज्ञापनमर्थः प्रयोजनं यस्याः सा तथोक्ता। अज हल्लक्षणया यज्ञादिकर्मप्रतिपादिकाऽतो गतागतस्य यज्ञादिफलत्वेन न चरणश्रुतिविरोध इति योजना। यद्यपि विष्णुत्तत्वनिर्णयटीकायां-इष्टं यजनं पूर्तमन्नदानादिकं 'अन्येषामपि दृश्यते' इति दीर्घ इति व्याख्या तम्। तथाऽपि 'अथ य इमे' इति श्रुतौ दत्तमिति पृथक् श्रवणात्पूर्तं तटाकादीति व्याख्येयम्। इतिशब्द आद्यर्थे। तथा च ये स्वस्वग्रामे इष्टापूर्ते दत्तं दानं एवमादि कर्म 'उपासते' अनुतिष्ठन्तीति सिद्धान्त रीत्या श्रुत्यर्थः। इतीति सूत्रपदानुवादः। एवमित्यर्थः। कार्ष्णाजिनिरि ति कश्चिदाचार्यः, मन्यत इति शेषोक्तिः॥