भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 777, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 777

७३० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] १६. अधिकरणम् ॥ ( १ ) ‘ धूमो भूत्वाऽभ्रं भवति ’ ( छा. ५-१०-५. ) इत्याद्यन्य- भावः श्रूयते । स कथमिति । ( २ ) अतो ब्रवीति— सू—ॐ ॥ तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ ॐ ॥ २४ ॥ धूमादिषु प्रविश्य तद्गतौ गतिस्तत्स्थितौ स्थितिरित्या १६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे कर्मिणो धूमादिभावो निवार्यते । तत्र विषयं दर्शयति—धूम इति ॥ इत्यादीति लुप्तविभक्तिकम् । तथा च छन्दोग- श्रुतौ काषायणश्रुतौ च ‘ धूमो भूत्वा ’ इत्यादौ धूमादिदेवताभ्योऽन्य- स्य कर्मिणो धूमादिदेवताभावः श्रूयत इत्यर्थः । अनेन धूमादिदेवता- भावाख्यविषयो दर्शितः । सन्देहप्रकारं दर्शयति—स इति । धूमादि- भावः ‘ कथं ’ किं प्रकारः किं कर्मिणो धूमादिदेवैक्यं ? किं वा तत्प- दप्राप्तिः ? प्रकारान्तरं वेत्यर्थः ॥ ( २ ) धूमादिदेवैक्यं तत्पदप्राप्तिर्वा धूमादिभाव इति पूर्वपक्ष- स्य अन्यभावः प्रतीयते इत्यनेनैव प्रदर्शितत्वात्तमप्रदर्श्य सिद्धान्तपरंसू- त्रमवतार्य व्याचष्टे—अत इति ॥ धूमादिष्विति । धूमादिदेवतादेहेष्वि- त्यर्थः । कर्मणि सप्तमी । ‘ तद्गतौ ’ धूमादिगतौ । स्थितावित्यत्रापि त- च्छब्दान्वयः । आदिशब्दाल्लघुत्वं अन्यदेहाविग्रहवत्तद्देह एवाभिमा- नः पृथगभिमानाभावश्च गृह्यते । ‘ तद्भावापत्तिः ’ तत्स्वभावापत्तिः । तथा च तत्स्वभावैकदेशसादृश्यनिबन्धनो गौणोऽयं निर्देश इति भा- वः । यद्वा—आदिशब्देन स्थानैक्यं गृह्यते । तेन लाक्षणिकोऽयं प्रयोग इति सूचयति । एवं टीकाभिप्रेतं तदधीनत्वनिमित्तं च आदिपदार्थत- या ग्राह्यम् । अत एव स्मृतौ ‘ ब्रह्मेदं जगदित्यपि ’ इति दृष्टान्तोक्तिः । अन्यथाऽसङ्गतेः । अस्मिन् पक्षे श्रौतनिर्देशो मुख्यः । अनेन सूत्रे तत्त्व- प्रदीपोक्तरीत्या गजमुख इतिवत्तस्य धूमादेः स्वभावपदोक्तधर्मसदृशः स्वभावो यस्य सः तत्स्वभावः, तस्य भावः तत्स्वाभाव्यम्, तस्याप- त्तिरिति विग्रहः । लाक्षणिकत्वपक्षे तस्य स्वभावस्य तद्देहस्थितत्व- स्यापत्तिरिति विग्रहः । मुख्यत्वपक्षे तदधीनस्वभावस्यापत्तिरिति । पक्षद्वयेऽपि स्वार्थे ष्यञ् । तथा च ‘ तस्यां ’ ‘ धूमो भूत्वा ’ इति श्रुतौ श्रुता ‘ तद्भावापत्तिः ’ धूमादिभावप्राप्तिर्नाम तत्स्वाभाव्यापत्तिरेव, न