पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 779, कुल 1267 में से
संदर्भ में पढ़ें७३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] यथा जीवः परं ब्रह्म ब्रह्मेदं जगदित्यपि ॥ इति ॥ २४ ॥ १७. अधिकरणम् ॥ (१) बहुस्थानगमनात्कल्पान्तमप्येवं स्यादिति । यथोक्तं तत्त्वप्रदीपे—भेदरहिता वागिति । केचित्तु—अर्शआद्यजन्तो ऽयं शब्द इत्याहुः । अपिर्निमित्तान्तरसमुच्चये । पूर्वपादेनान्वेति । न न्वदर्शनादयुक्तोऽयमर्थ इत्यत एकदेशसादृश्येनाभेदप्रयोगं दर्शयति— यथेति । 'तत्त्वमसि' (छा.६-८-७.) इत्यादावित्यर्थः । श्रुतियुक्त्यनुभ वसम्प्रतिपत्तिबलादयं दृष्टान्त उपात्तः । यत्प्राक्सूचितं तदधीनत्वाद् प्ययं प्रयोग इति, तत्र दृष्टान्तमाह—ब्रह्मेदमिति । 'सर्वं खल्विदं ब्रह्म' (छा.३-१४-१.) इत्यादावित्यर्थः । सर्वस्य ब्रह्माधीनत्वादयं व्यपदेशः। यद्वा—तद्गुणसारत्वादित्यत्रोक्तदिशाऽयमपि दृष्टान्तः सकलजगद्गुण सदृशगुणात्मकत्वेन ब्रह्म जगदित्युच्यत इति सादृश्यनिमित्तक एव योजनीयः । अपिर्दृष्टान्तसमुच्चये ॥ १६ ॥ ॥ इति तत्स्वाभाव्याधिकरणम् ॥ १७. अधिकरणम् ॥ (१) अत्राधिकरणे स्वर्गादवरूढस्य कर्मिणोऽचिरेण गर्भवासा दिप्राप्तिः समर्थ्यते । तत्र कर्मी स्वर्गान्निर्गतश्चिरेणैव देहं प्राप्नोतीति पू र्वपक्षप्रतिज्ञाया नातिचिरेणेति सूत्रांशेन ज्ञापितत्वात्तमप्रदर्श्य तद्धेतुं दर्शयति—बहुस्थानेति ॥ गमनं प्राप्तिः । तेन च तच्छ्रवणमुपलक्ष्यते । तथा च 'यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति' (छा. ५-१०-५.) इत्यादौ कर्मिणो बहुस्थानप्राप्तिश्रवणादित्यर्थः । बहुस्थानग मनं च नाचिरेण सम्भवति । तत्र तत्र तत्स्वाभाव्येनातिमहासुखे च सम्भवति तद्विहायागमने प्रयोजनाभावात्। अतस्तदन्यथानुपपत्त्याऽऽ गतौ विलम्बोऽङ्गीकार्य इति भावः । तावता स्वर्गादागमने विलम्बः कुत इत्यत आह—कल्पान्तमिति । ब्रह्मकल्पपर्यन्तमित्यर्थः । 'एवं' तत्तद्देवतास्वाभाव्यं 'स्यात्' असकृदनुष्ठितयज्ञस्य मध्ये मार्गमिति भावः । सदेत्यनुक्त्वा कल्पान्तमित्यवध्युक्तिः कल्पावसाने देवानां प दपर्यवसानादित्यभिप्रायेण ॥