पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 781, कुल 1267 में से
संदर्भ में पढ़ें७३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] जायन्ते ' ( छा० ५-१०-६. ) इति श्रवणादनर्थफलत्वं यज्ञादेरिति । ( २ ) अतो वक्ति — सू — ॐ ॥ अन्याधिष्ठिते पूर्ववदभिलापात् ॥ ॐ ॥ २४ ॥ अन्याधिष्ठिते व्रीह्यादिशरीरे प्रवेशः । न तु भोगोऽ स्य । ' धूमो भूत्वाऽभ्रं भवति ' ( छा० ५-१०-५० ) इत्या दिपूर्वोक्तिवत् । शेषः । अत्र श्रुतिर्न दुःखफलकत्वे साक्षाद्धेतुः, किन्तु स्वावगतव्रीह्या- दिभावकृतच्छेदनादिनिमित्तेन योनिप्रवेशप्राक्कालीनस्थावरजातिनि- मित्तेन वेति द्रष्टव्यम् । तथा च सुखसाधनतया वेदोक्तस्यापि कर्म- णो दुःखसाधनत्वे मोक्षसाधनत्वेनोपदिष्टवैराग्यादावपि विश्वासाभा- वादननुष्ठेयत्वं तस्येति भावः । ' ते ' भुक्तपुण्याः कर्मिणः स्वर्गादाग- च्छन्तो मेघपर्यन्तेन पथा वर्षेण सहावनितलमापन्नाः ' इह ' भूमौ के- चिद्व्रीहियवाः केचिदोषधिवनस्पतयः केचित्तिलमाषाः ' जायन्ते ' अन्यजीवाधिष्ठिते व्रीह्यादिशरीरे प्रविशन्तीत्यर्थः । इतिशब्दः आद्यर्थ- कः श्यामाकादिधान्योपलक्षणार्थकः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अन्येति । अ- न्येन व्रीह्यादिशरीराभिमानिजीवेन भोक्तृतयाऽधिष्ठितव्रीह्यादिशरीरे इत्यर्थः । सूत्रेऽपेक्षितशेषं दर्शयति—प्रवेश इति । सावधारणमेतत् । न त्वभिमानित्वमिति तदर्थः । भुक्तावुच्यते यत इति शेषः । अस्या- तो मानाभावान्न कर्मिणो व्रीह्यादिभावो न वा तत्कृतदुःखमित्युपसंहृ- तवाक्येनान्वयः । ननु मा भूदभिमानित्वं कर्मिणः, तथाऽपि व्रीह्यादि- सहावस्थानेऽपि दुःखं स्यादित्यत आह—न त्विति । 'अस्य' कर्मिणः । तुशब्दो भोगस्यानवसरप्राप्तत्वरूपविशेषद्योतकः । यदि कर्मिणो व्री- ह्यादिप्रवेश एव, न तद्भावः, तर्हि कथं सामानाधिकरण्यमित्यतस्तत्प- रिहारत्वेन पूर्ववदित्यंशं व्याचष्टे—धूम इति । यथा तत्स्वाभाव्याप- त्तिरिति पूर्वसूत्रे प्रकृता ' त इह ' इत्युक्त्यपेक्षया पूर्वा ' धूमो भूत्वा ' इत्यादिरूपोक्तिः धूमादिदेवतादेहप्रवेशेन स्थानैक्याद्यभिप्राया, तथा ' त इह व्रीहियवाः ' इति सामानाधिकरण्योक्तिरपीत्यर्थः । पूर्वोक्तव- दिति पाठे यथा धूमादिषु पूर्वोक्तेषु तद्भावोक्त्या प्रवेशादिः विवक्षित इति तत्त्वप्रदीपोक्तार्थो द्रष्टव्यः ॥