पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 808, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ८. सू - १२.] दीपिका सहितम्. ७६१ समधिगतोऽस्मि विधूतभेदमोहः । इति च भागवते ॥ ११ ॥ (६) सू— ॐ ॥ न भेदादिति चेन्न प्रत्येकम तद्वचना त् ॥ ॐ ॥ १२ ॥ कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । था अहमपि ‘आत्म कल्पितानां’ परमात्मसृष्टानां ‘शरीरभाजां’ जी वानां ‘हृदि हृदि’ प्रतिहृदयं ‘विष्ठितं’ समग्ररूपेणैव विविधतया स्थितं ‘तं’ ईश्वरं ‘इममजं’ कृष्णं एकत्वसङ्ख्याविशिष्टमभिन्नं भेद मोहो भेदोऽस्तीति व्यामोहो विधूतः अवतारगुणादिषु निरस्तो भेद भ्रमो यस्य सः, समधिगतोऽस्मीत्यर्थः । करचरणादिरूपसामग्र्यमा त्त्रेऽयं दृष्टान्तः न तु द्रव्यपूर्तिरूपेऽपि । सूर्यस्य ईश्वरवच्चक्षुरादिषु द्र व्यपूर्त्या स्थित्यभावादिति ध्येयम् । यद्वा—‘प्रतिदृशं’ दृशंदृशं प्रति मां प्रति मां प्रत्ययं वर्तत इति नैकधा बहूनामाभिमुख्येन स्थितमर्कमे कमेकमिव ईश्वरमप्यहं एकं समधिगतोऽस्मीत्यर्थः । न चास्मिन् पक्षे सूर्यस्य वस्तुतोऽनेकस्थानत्वाभावात्कथमस्य पूर्वप्रमाणगतसूर्यदृष्टा न्तस्पष्टनरूपत्वमिति वाच्यम् । मां प्रति मां प्रतीति भ्रान्त्या बहुधा व्य वस्थितस्य सूर्यस्य यथैकत्वज्ञानमित्येवंस्पष्टनरूपत्वसम्भवात् । इति चेति । न केवलं मात्स्ये, किन्तु भागवते चोक्तार्थोऽभिहित इति चश ब्दार्थः । प्रथमस्कन्धे युधिष्ठिरं प्रति भीष्मवाक्यमेतत् ॥ (६) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे- नेति ॥ भेदवचनादित्यनेन भेदशब्दो भवनपरतया व्याख्यातः । शेषि त्वादेरुपलक्षणमेतत् । तथा च ‘कार्यकारणबद्धौ’ इति भेदकधर्मो क्तिमुखेन भेदोक्तेर्विश्वाद्यात्मनः परस्यानुग्राह्यानुग्राहकभावान्न तस्या भेदो निर्दोषत्वं गुणपूर्णत्वं च युक्तमित्यर्थः । ‘सर्वत्र हि’ इत्युक्तानु मानं तु प्रतिपक्षित्वान्नसाधकमिति भावः । ‘कार्य’ इति माण्डूकश्रु तौ कार्यशब्देनाज्ञानकार्यस्वातन्त्र्यभ्रमरूपं वा, तत्त्वप्रदीपोक्तरीत्या प्र कृतिकार्यदेहेन्द्रियादिविषयकममताभिमानादिरूपं वा, जागरणं जाग्र त्कालीनभ्रमकार्यभूतभ्रमरूपस्वप्नश्च विवक्षितः । न च स्वप्नस्य जाग्र त्कालीनभ्रमकार्यत्वं कथमिति वाच्यम् । जाग्रत्कालीनभ्रमाहितसं स्कारात्स्वप्नकालीनजाग्रत्त्वभ्रमोत्पत्तिसम्भवात् । कारणशब्देन तु अ ज्ञानं वा, भ्रान्तिकारणप्रकृतिर्वा, ‘स्वप्नादुत्थाने तैजसाद्विभक्तो वि ९६