पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 817, कुल 1267 में से
संदर्भ में पढ़ेंवैलक्षण्यं चोच्यते रूपस्य विज्ञानानन्दमात्रत्वं 'ऐका त्म्यप्रत्ययसारम्' (मा. २-७.) इति । (८) आनन्दमात्रमजरं पुराणं एकं सन्तं बहुधा दृश्यमानम् । तमात्मस्थं येऽनुपश्यन्ति धीरा घ , सर्वरूपाणां प्रकृत्याद्यात्मकत्वनियमात् इतररूपापेक्षया तद्रूपस्य वैलक्षण्यानुक्तेरित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—आह चे ति ॥ सूत्रे भाष्ये च चोऽवधारणे । उच्यत एवेति सम्बध्यते । न तु नोच्यत इत्येवशब्दार्थः । 'रूपस्य' शरीरस्येति बुद्ध्या विविक्तस्य विपरिणतस्य तत्पदस्य व्याख्यानम् । विज्ञानानन्दमात्रत्वमिति । ज्ञा नानन्दाद्येकस्वरूपत्वमित्यर्थः । अनेन तच्छब्दः तद्गुणसारत्वादित्यत्र प्रकृतज्ञानानन्दगुणवाची भावनिर्देशश्चायमिति सूचितम् । इदं च वै लक्षण्यपदेन समानाधिकृततयाऽन्वेतव्यम् । मात्रपदेन रूपस्य प्राकृत त्वनिवृत्तिः । इति श्रुत्योच्यत इत्यन्वयः । ब्रह्मणो ज्ञानानन्दाद्यात्मक त्वोक्त्या तद्रूपस्यापि तदुक्तमित्यभिप्रायः । अनेन यतः 'ऐकात्म्यप्रत्य यसारम्' इति माण्डूकश्रुतिः तस्य ब्रह्मणो रूपस्य तन्मात्रत्वं ज्ञानान न्दाद्येकस्वरूपत्वं 'आह च' वक्त्येव अतो न वैलक्षण्यानुक्तिरिति सूत्रार्थ उक्तो भवति । तथा च पूर्ववाद्युक्तहेतुरसिद्ध इति भावः । एकः प्रधानः स चासावात्मा च पूर्णश्चैकात्मा तस्य भावः ऐकात्म्यम्, प्रत्ययो ज्ञानं, ऐकात्म्यं प्रत्ययश्चेत्युभयं सारः स्वरूपं यस्य तदैकात्म्य प्रत्ययसारमिति श्रुत्यर्थः । यद्यपि माण्डूकभाष्ये एकः प्रधान उद्दिष्टः आत्मा पूर्णत्वतश्श्रुतः । तदेवास्य स्वरूपं यदैकात्म्यं तेन कीर्तितम् ॥ प्रत्ययो ज्ञानरूपत्वात्सार आनन्दरूपतः ॥ इत्यानन्दरूपत्वं सारशब्दार्थो, न स्वरूपमित्युक्तम् । तथा व्यासतीर्थी ये—स्वार्थे ष्यञ् । ऐकात्म्यस्य ब्रह्माभेदं चाश्रित्य ऐकात्म्यश्चासौ प्रत्ययश्चासौ सारश्चेति विग्रहः प्रदर्शितः । तथाऽपि 'आनन्दमात्रम्' इत्युत्तरश्रुत्यवैयर्थ्यायेह स्वरूपार्थतया सारशब्दो व्याख्यातः ॥ (८) इह सारशब्दस्य स्वरूपार्थत्वादानन्दरूपत्वे श्रुत्यन्तरं पठ ति—आनन्दमात्रमिति । आनन्दैकस्वरूपं, न तु प्राकृतं, कुतो ? यतः