भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 83, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 83

३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ७८ ) श्रवणं मननं चैव ध्यानं भक्तिस्तथैव च । ( ७९ ) साधनं ज्ञानसंपत्तौ प्रधानं नान्यदिष्यते ॥ ( ८० ) न चैतानि विना कश्चित् ज्ञानमाप कुतश्चन ॥ इति नारदीये॥ ( ८१ ) ब्रह्मशब्दश्च विष्णोवेव । ( ७८ ) नन्वस्तूत्तमप्रसादाय ज्ञानापेक्षा, तथाऽपि “कर्मणा ज्ञान- मातनोति” इत्यादेः कर्मादिनाऽपि ज्ञानं भवतीति न तदर्थं जिज्ञासा कर्तव्या “आत्मा” इति वाक्येऽन्यनिषेधाभावादित्याशङ्कां प्रकृतप्र- माणशेषेण परिहरति—‘श्रवणं’ इति । अत्र एवकारस्य द्विर्ग्रहणं सर्वत्र सम्बन्धज्ञापनाय । ते च श्रवणादीनां कार्यसाधने अन्यसाहि- त्यनिरासकाः, “नरं च नारायणमेव” इत्यादाविव अनभिमतकर्मा- दिव्यावर्तकाश्च । द्वयोर्द्वयोस्समुच्चये ‘च’ शब्दौ । ‘तथा’ शब्द उ- पमायाम् । ‘तथैव च’ इति निपातसमुदायो वा । भक्तिग्रहणं प्रस- ङ्गात्, दृष्टान्तार्थं वा । ( ७९ ) तथा च ‘ज्ञानसम्पत्तौ’ अपरोक्षज्ञानप्राप्तौ यथा भक्तिस्त- था श्रवणाद्येव साधनं, नान्यत्कर्मादीत्यर्थः । का गतिस्तर्हि “कर्म- णा ज्ञानमातनोति” इत्यादिवचनस्येत्यत आह—‘प्रधानं’ इति । श्रव- णादि प्रधानं साधनं, ‘अन्यत्’ अप्रधानमित्येव ‘इष्यते’ अभ्युपेयते प्रामाणिकैः, न त्वन्यत् साधनमेव नेति योजना। अप्रधानसाधनविष- यं कर्मादिवचनमिति भावः । ( ८० ) विपरीतं किं न स्यादित्यत आह—‘न च’ इति । चश- ब्दोऽप्यर्थः । तथा च ‘एतानि’ श्रवणादीनि ‘विना कश्चित्’ अपि अधिकारी ‘कुतश्चन’ कर्मादेस्सतः ‘ज्ञानं नाप’ एवमेतानि श्रवणा- दीनि सन्तिचेत् कुतश्च कर्मादेर्विना ज्ञानं नापेति नेति योजना। तथा च निरपेक्षान्वयव्यतिरेकाभ्यां श्रवणाद्येव ज्ञाने प्रधानं साक्षा- त्साधनं, कर्मादि तु तदभावात् पारम्पर्येण साधनमिति न वैपरीत्यमि- ति भावः । ‘नारदीये’ ‘यत उक्तं’ इति शेषः । अस्य ‘अतो “यतो नारायण” इत्यादिनोक्तं युक्तं’ इत्युपस्कृतवाक्येनान्वयः । ‘यतो ना- रायण’ इत्यनेन जिज्ञासायाः निर्विषयत्वशङ्कानिरासाय प्रयुक्तः सौ- त्रो ब्रह्मशब्दो नारायणपर इति व्याख्यतः । ( ८१ ) ननु नारायणप्रसादमृते न मोक्षश्चेत् तर्हि तज्जिज्ञासैव कर्त- व्या न ब्रह्मजिज्ञासा । न च वाच्यं नारायण एव ब्रह्मपदेन विवक्षितः