पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 832, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १४. सू - २३. ] दीपिकासहितम्. ७८५ ( ३ ) चशब्दात् स्मृतिश्च — सृष्टिं च पालनं चैव संहारं नियमं तथा । एक एव करोतीशः सर्वस्य जगतो हरिः ॥ इति ब्रह्माण्डे ॥ २२ ॥ * १४. अधिकरणम् ॥ ( १ ) परमात्मापरोक्ष्यं च तत्प्रसादादेव । न जीवशक्त्येति धा व्याख्यानमित्युक्तम् । तत्र स इति प्रसिद्धपदविभागाविरोधादक- रे द्वित्वाश्रवणं च बाधकमिति ध्येयम् ॥ ( ३ ) सृष्टिसंहारकर्तुरपि पालकत्वरूपगुणान्तरसत्त्वे स्पष्टस्मृति- परतया सौत्रचशब्दं व्याचष्टे—चशब्दादिति ॥ समुच्चितेति शेषः । तां स्मृतिं पठति—सृष्टिमिति । सृष्ट्यादिशब्दैः प्रयोज्यव्यापारा लक्ष्य- न्ते । सर्वस्य जगत इत्यादौ योज्यम् । परस्परसमुच्चये चः । 'चैव' एवं संहारम् । तथाशब्दः समुच्चये । नियमनं च । 'एक एव' न त्व- न्यः । अत्रोपपत्तिः—ईश इति । ब्रह्माण्डे उक्तिश्चेति शेषः । अस्य श्रु- तिरित्यस्य च ब्रवीतीति क्रियापदेनान्वयः । श्रुतौ स्थित्यतिरिक्तस्य धारणपोषणादिरूपप्रयोजनान्तरस्योक्त्या तस्य च 'एकः' इति स्मृ- तावनन्यसाध्यत्वस्योक्त्या च स्थितेः स्वतःसिद्धत्वात्तत्पालनं नि- ष्प्रयोजनमिति चोद्यं निरस्तं भवति । अनेन—'हि' यतो 'नैतावत्' इति श्रुतिः 'अस्येदेषा सुमतिः' इत्यादिना पूर्वं प्रकृतस्योक्तस्य सृ- ष्ट्यादिकर्तृत्वस्य 'एतावत्त्वं' एतावन्मात्रपर्यवसितत्वं पालनाख्यगु- णान्तरासाहित्यं प्रतिषेधति । न केवलमेतावत्किन्तु 'ततः' सृष्ट्यादि- कर्तृत्वात् 'भूयः' अधिकं पालकत्वमप्यस्य विष्णोर्ब्रवीति । तथा 'सृ- ष्टिं च' इति स्मृतिश्च स्पष्टम् । अतः सृष्टिसंहारकर्तृत्वातिरिक्तं पा- लकत्वाख्यं महिमान्तरमपि परस्य सिद्धमिति सूत्रार्थ उक्तो भव- ति ॥ २३ ॥ ॥ इति प्रकृत्यधिकरणम् ॥ ःःः— १४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे भगवद्भक्तेः कर्तव्यतासमर्थनाय तस्योपल- ब्धियोग्यत्वं समर्थ्यते । सिद्धान्तसूत्रमवतारयति—परमात्मेति ॥