पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 855, कुल 1267 में से
संदर्भ में पढ़ें८०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] सर्वदेशकालवस्तुष्वनेनैव सृष्ट्यादिकं प्रवर्त्तते । ' एष सर्व एष सर्वगत एष सर्वेश्वर एषोऽचिन्त्य एष पर मः' इति भालुवेयश्रुतिः । ( ३ ) सर्वत्र सर्वमेतस्मात्सर्वदा सर्ववस्तुषु । स्वरूपभूतया नित्यशक्त्या मायाख्यया यतः ॥ अतो मायामयं विष्णुं प्रवदन्ति सनातनम् । इति चतुर्वेदशिखायाम् । आदिशब्दादन्यत्र प्रमाणा भावाच्च ॥ ३८ ॥ विधेयसम्बन्धबोधनायैष इत्यभ्यासः । यद्यपि प्रथमोक्तं सर्वत्वं न सा- ध्यसाधकमिति भावेन यदनन्तरोक्तं सर्वगतत्वं सूत्रकृता गृहीतं तद प्यस्यैव सृष्ट्यादिकर्तृत्वमित्युक्तसाध्ये साधकं न भवति । तथाऽपि 'अनुप्रविश्य नामरूपे व्याकरोत्' (छा. ६-३-२.) इति श्रुतेः सर्वगत- त्वस्य सृष्ट्याद्यर्थत्वात् तच्छब्देनोक्तसाध्यसिद्धिसम्भवाद्युक्तस्तदुप- न्यासः। ईश्वरपरत्वज्ञापनाय समग्रश्रुत्युपन्यासः। सर्वगतत्वश्रुतौ सर्व- सृष्ट्यादिकर्तृत्वस्य अर्थादुक्तत्वात् मायामयशब्दोक्तायां मायामयशब्द- व्याख्यानरूपायां श्रुतौ तु साक्षादुक्तत्वात् प्रमेयभेदाच्छ्रुतिद्वयोपन्यासः॥ ( ३ ) 'सर्वत्र' सर्वदेशेषु 'एतस्मात्' विष्णोः 'सर्वदा' सर्वका- लेषु सर्ववस्तुषु सर्वमित्यन्वयः । सर्ववस्तुविषयं सृष्ट्यादीत्यर्थः । प्रव- र्तेत इति भाष्यपदमिहापि सम्बध्यते। तथा च यतः एतस्मात् मायया विश्वसृष्ट्यादि 'प्रवर्तते' भवति, अत एनं विष्णुं मायामयं वदन्ति क- वयः। मायया शक्त्या मातीति माया इच्छात्मिका शक्तिः स्वरूपभूता यस्यासौ मायामय इति व्युत्पत्तिसम्भवादिति भावः । कदाचिद्वि- ष्ण्वभावे शक्त्यभावेन सर्वदेशकालीनसर्वसृष्ट्यादिकर्तृत्वायोगा इति शङ्कावारणाय - 'सनातनं' परमनित्यं विष्णुं नित्यशक्त्येति चोक्तम् । नित्यत्वोपपादनाय—स्वरूपभूतयेति । चतुर्वेदशिखायां श्रुतिः पठिते- ति शेषः। 'अन्यत्र' देशकालान्तरे कतिपयवस्तुविषये विष्णोरन्यतः सृष्ट्यादावित्यर्थः । प्रमाणाभावाच्चेति । इति सङ्गृहीतमिति शेषः । न केवलं स्वपक्षसाधकादुक्तसाध्यसिद्धिः, किन्त्वन्यत्र परपक्षे प्रमाणा- भावाच्चेति समुच्चये चशब्दः ॥ १९ ॥ ॥ इति फलाधिकरणम् ॥