पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 857, कुल 1267 में से
संदर्भ में पढ़ें८१० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] 'विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्' (बृ. ५- ९-२८.) इति ॥ ४० ॥ (४) सू-ॐ ॥ धर्मं जैमिनिरत एव ॥ ॐ ॥ ४१ ॥ यतः फलं तदेव कर्म ईश्वराद्भवति । 'एष ह्येव साधु श्चयः, अतः कुतोऽसौ निश्चय इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य तदुपा- त्तश्रुतिमेवोदाहरति—श्रुतत्वाद्वेति ॥ इति श्रुतत्वादित्यन्वयः । न के- वलं चेतनत्वादुपपत्तेरीश्वरस्य फलदातृत्वं सम्भाव्यते, किन्तु श्रुत्यु- क्तत्वाच्च तन्निश्चीयते चेति सूत्रार्थः । 'विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् । तिष्ठमानस्य तद्विदः' (बृ.५-९-२८.) इति वाजसनेयवाक्ये एकवचनं समुदायापेक्षया, विशेष्यब्रह्मशब्दवि- वक्षया आनन्दमिति नपुंसकप्रयोगः 'निर्दोषचैतन्यसुखान्तनुम्' इ- ति विष्णुतत्त्वनिर्णयोदाहृतवाक्य इव । तथा च 'दातुः' हविःप्रदातृ- णां यजमानानां पूजकानां 'रातिः' प्रियः । फलप्रद इति यावत् । 'ति- ष्ठमानस्य' स्वस्मिन् मनसा वर्तमानानां 'तद्विदो' ब्रह्मज्ञानिनां 'परा- यणं' परमप्रियं 'विज्ञानं' पूर्णज्ञानं पूर्णानन्दं ब्रह्मेत्यर्थः । यथोक्तं बृ- हद्भाष्ये— स प्रियः सर्वदातॄणां ज्ञानिनां परमप्रियः । ये तु तद्भाविता नित्यं तेषामेव परायणम् ॥ इति ॥ ब्रह्मपरत्वस्फोरणाय विज्ञानमित्याद्युदाहृतम् ॥ (४) उक्तमाक्षिपत्सूत्रमुपन्यस्य व्याचष्टे—धर्ममिति ॥ तत्कर्मैवे- त्येवकारान्वयः । सौत्रधर्मपदमधर्मस्याप्युपलक्षकमिति भावेन तदिति स्वपदं कर्मेति सामान्यपदेन विवृतम् । ईश्वरात् यतश्श्रुतिरित्याभ्यां अ- त इति पदं द्वेधा व्याख्यातम् । कर्मेति सामान्योक्त्या 'एष ह्येव' इति श्रुतिप्रतीकग्रहणेन च 'एष ह्येवासाधु कर्म कारयति' (कौ.३-८.) इ- त्यस्याप्युदाहर्तव्यतां ज्ञापयति । जैमिनिर्मन्यत इति शेषः । श्रुतिस्तु वैष- म्येन्वये व्याख्याता। सूत्रे नेति शेषः । तथा च यदुक्तं ईश्वर एव फल- प्रदो, न कर्मेति तन्न, कुतः ? 'अत एव' फलस्य कर्मान्वयव्यतिरेका- नुविधायित्वादेव । इदं तु न्याय्यं, किं तत्? यत् 'अतो' धर्माधर्मा- ख्यकर्मत एव फलं भवति, तच्च कर्म तदीश्वराद्भवति । कुतः ? 'अ- तः' 'एष ह्येव' इति श्रुतेरेव । यत एवमत ईश्वरोऽपि अतः एतस्मि-