पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 859, कुल 1267 में से
संदर्भ में पढ़ें९१२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] देशात् । ‘द्रव्यं कर्म च कालश्च’ इति च ॥ ४२ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये तृतीयस्याध्यायस्य द्वितीयः पादः. * ॥ ॐ ॥ र्वोक्तचेतनत्वादिति हेतुः ‘द्रव्यम्’ इति स्मृतिश्च समुच्चीयत इत्युक्तं भ वति । ‘पुण्येन’ इति श्रुतिः वैषम्यनये ‘द्रव्यम्’ इति स्मृतिश्च रचना धिकरणे व्याख्याता । अत्र श्रुतेः पुण्येन च ज्ञानमुत्पाद्य पापं विनाशय तस्य पुण्यपापरहितस्य ज्ञानिनः प्रसन्नः स्वयमेव फलमनन्तं हि ददा तीत्यहो भगवतो नारायणस्याश्चर्यरूपोऽयं महिमेति तत्त्वप्रदीपोक्तार्थ विशेषोऽपि ग्राह्यः । कर्मब्रह्मणोः स्वातन्त्र्यास्वातन्त्र्यव्युत्पादनप्रका रश्च तत्रैवोक्तः ॥ २० ॥ ॥ इति फलाधिकरणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपिका यां तृतीयाध्यायस्य द्वितीयः पादः. * ॥ ॐ ॥