पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 869, कुल 1267 में से
संदर्भ में पढ़ें८२२ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ३.] ( ३ ) आग्नेये च-- विधिशेषाणि कर्माणि सर्ववेदोदितान्यपि । यथा कार्याणि सर्वैश्च सर्वाण्येवाविशेषतः ॥ एवं सर्वगुणान् सर्वदोषाभावांश्च यत्नतः । योजयित्वैव भगवानुपास्यो नान्यथा क्वचित् ॥ इति ॥ ( ४ ) समानविषये चोपसंहारः । न तु ' सोऽरोदीत् ' ( तै.सं. १-५-१० ) इत्यादीनाम् । श्रुतिः। एक इति पदेनार्थभेदादिति सूत्रावयवं व्याचष्टे । एको हि पर मात्मा सर्ववेदादिभिरुपास्योऽर्थ इति तत्त्वप्रदीपोक्तेः । अस्मिन् पक्षे ' एकः ' अभिन्न इत्यर्थः । ' सूत्रावयवं ' अभेदादिति सूत्रावयवावय वम् । भावबोधे तु बहुवचनेन त्रिमात्रप्रतीतिवारणाय सर्वैरितिपदेन विवृतमित्युक्तम् । ' तत्र तत्र ' वेदपुराणादिषु ' प्रतीतैः ' प्रतिपादितै रित्यर्थः । श्रुतिरित्यनन्तरं यत इति शेषः ॥ ( ३ ) उपसंहृत्योपास्य इत्यत्रैवार्थे स्मृतिमाह-आग्नेये चेति ॥ श्रुति समुच्चये चः। ' विधिशेषाणि ' शिष्यन्त इति शेषाणि विधिभिः शिष्टानि 'सोमेन यजेत' (आप.श्रौ.१०-२-१.) इत्यादिविधिविहितानि कर्माणि ज्यो तिष्टोमादीनि । यद्वा-प्रधानविधिशेषाणि कर्माणि प्रयाजादीनि । न के वलं स्वस्वशाखाविधिविहितानि, किन्तु सर्ववेदोदितान्यपि 'अविशेष तः ' अधिकारिविशेषाविभागेन ' सर्वैः ' शाखिभिः यथा कार्याणि, ए वं भगवान् सर्ववेदोक्तान् गुणान् दोषाभावांश्च ' यत्नतः ' श्रवणादिप्र यत्नतः ' योजयित्वा ' यथाशक्त्युपसंहृत्यैव सर्वैरुपास्यो, न तु ' क्वचि त् ' कालदेशपुरुषेषु उक्तस्यान्यथाभावोऽस्तीत्यर्थः । इतिशब्दस्य इत्या ग्नेये वचनाच्च उपास्य इत्यन्वयः ॥ ( ४ ) सर्ववेदोक्तगुणोपसंहारमुक्त्वा तदपवादमाह - समाने चेति ॥ तद्व्याचष्टे - समानविषये चेति ॥ योग्यगुणविषय एवेत्यर्थः । अनेन विषयसप्तमीयम्, चोऽवधारण इति सूचितम् । उपसंहार इत्यस्यावृ त्त्याऽत्राप्यन्वय इत्याह - उपसंहार इति । चशब्दार्थवधारणव्यावर्त्य माह - न त्विति । ' इत्यादीनां ' इत्यादिवाक्यबोध्यानामर्थानाम् । अस मानानामिति शेषः । इत्यादीनामुपसंहार इत्यन्वयः । अयोग्योपासनेना नर्थप्राप्तेरिति भावः । आदिशब्देन 'यदरोदीत्तद्रुद्रस्य रुद्रत्वम् ' ( तै. सं.१-५-१.) 'रुद्रस्य त्वेव धनुरार्त्निः शिर उत्पिपेष' (तै.आ.१-५०) इत्या