भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 871, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 871

हारस्यान्यथात्वमिति चेन्न, एते गुणा नोपास्या इति विशेषवचनाभावात् 'सर्वैर्गुणैरेक एवेशिताऽसावुपा सितव्यो न तु दोषैः कदाचित्' ( ) इति विशे षवचनाच्च । आत्मेत्येवेत्यवधारणमनात्मत्वनिवृत्त्यर्थम् ॥७॥ (७) सू--ॐ ॥ न वा प्रकरणभेदात्परोवरीयस्त्वादि वत् ॥ ॐ ॥ ८ ॥ 'विशेषवत्' विधिविहितोपसंहारवत् यतः 'आत्मा' इति शब्दादुप संहारस्यान्यथात्वं च अनुपसंहारः अल्पगुणज्ञानरूपोऽप्यर्थाद्विहितः ततश्च 'अन्यथात्वे' अन्यथोपसंहारे विधिशेषस्य विधिविहितकर्म णः 'अन्यथात्वं' लोपः प्रसज्यते तदुपसंहारस्य 'अन्यथात्वं' अकर्त व्यत्वं सिद्धमिति । परिहारांशं व्याचष्टे—नेति । सर्वगुणोपसंहारस्य 'अन्यथात्वं' अभावः नेत्यर्थः । कुतो नेत्यतः किमसो प्रामाणिकत्वा दङ्गीक्रियते, उत तद्विरोधिगुणोपसंहारे प्रमाणाभावाद्वेति विकल्प्य आद्यपक्षनिषेधहेतुत्वेन अविशेषादिति पदं व्याचष्टे—एत इति । विशेषे ति । विशेषप्रमाणाभावादित्यर्थः । नाविशेषादित्यस्यैकपद्याश्रयेण विशेषवचनादित्यर्थाभिप्रायेण द्वितीयपक्षनिषेधहेतुत्वेनाप्येतद्वयाच ष्टे—सर्वैरिति । सर्ववेदोक्तैरित्यर्थः । 'गुणैः' पूर्णत्वाविरोधिधर्मैः । तथा चासावीश्वरः 'एक एव' अभिन्न एव सर्वगुणैरेव 'उपासितव्यः' उपसंहृत्य ध्यातव्यो न तु दुःखादिदोषैरपीति योजना । चः समुच्चये । नन्वात्मत्वमेवोपासीत न त्वन्यदिति आत्मत्वावधारणादेव तदन्यगु णा नोपास्या इति सिद्ध्यतीत्यतः तदुत्तरत्वेनाप्यविशेषादिति हेतुं व्याचष्टे—आत्मेति । इत्यवधारणमिति । इतिवाक्यगतैवैकार इत्यर्थः । अनात्मत्वेति । अनात्मत्वमात्मन्ययोगः तस्य निवृत्तिर्व्यवच्छेदः स ए वार्थो यस्य तत्तथोक्तम् । यतोऽतो न तद्विरोध इति वाक्यशेषः । तथा च भगवन्तं आत्मैवायमित्युपासीत न त्वनात्मेतीति उत्तमाधिकारिणः प्रति अयोगव्यवच्छेदक एव एवकारो नान्ययोगव्यवच्छेदकः । निर वकाशोदाहृतश्रुतिविरोधादिति भावः । अनेनावधारणस्यायोगव्यव च्छेदेऽप्यविशेषादिति सौत्रहेतोरर्थान्तरमुक्तं भवति ॥ (७) ननु नायं सर्वगुणोपसंहारो युक्तोऽशक्यत्वादित्याशङ्कामभ्यु पगंमवादेन परिहरन् न वेति सूत्रं उपसंहारः कार्य इत्येतयोरनुवृत्त्य ध्याहाराभ्यां व्याचष्टे—प्रकरणभेदादिति ॥ परोवरीयस्त्वादिवदित्या