पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 883, कुल 1267 में से
संदर्भ में पढ़ें८३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] मुख्यं भवेन्न चान्येन फलं मुख्यं क्वचिद्भवेत् ॥ इति बृहत्तन्त्रे ॥ १५ ॥ (५) सू—ॐ ॥ आत्मशब्दाच्च ॥ ॐ ॥ १६ ॥ 'आत्मेत्येवोपासीत' (बृ. ३-४-७.) इत्यनुपसंहारे प्र माणम् ॥ १६ ॥ शः 'सर्वेषां गुणानां 'ज्ञानध्यानसमायोगात्' ज्ञानध्यानयोरुपयोग्यु पयोग्यभावेन संमेलनान्मुख्यं फलमपरोक्षज्ञानादिकं भवेत्, नान्येन परोक्षज्ञानमात्रेणेत्यर्थः । तथा च ध्यानपूर्वभाविज्ञानमपि ध्यानोपयो गितया न मुख्यमिति न मुख्यप्रयोजनान्तराभावहेतोरसिद्धिरिति भा वः । यद्यपि श्रवणादेस्तत्त्वनिश्चयद्वारा जनलोकादिफलकस्य गुणा भिधानमुख्यप्रयोजनत्वसम्भवात् मुख्यत्वविशेषणेऽपि प्रयोजनान्तरा भावहेतोरसिद्धिरेव । तथाऽपि मोक्षाख्यमहाफलसाधनापरोक्षज्ञानसा धनत्वेन विहितस्य श्रवणादेर्जनलोकादिकं न मुख्यं प्रयोजनमिति ज्ञानमेव प्रयोजनं वाच्यम् । तथा च श्रवणादेरपरोक्षज्ञानसाधनतत्त्व ज्ञानार्थत्वेन न श्रवणादिकं गुणकथनस्य मुख्यं प्रयोजनमिति नासि द्धिरिति भावः । इति बृहत्तन्त्रे कथितत्वान्नासिद्ध्यादिदोष इत्यन्वयः। अनेनोपसंहारे मुख्यप्रयोजनान्तरशून्यसप्रयोजनसर्वगुणाभिधानमेव लिङ्गतया प्रमाणमित्युक्तं भवति ॥ (५) एवं सर्वगुणोपसंहारं प्रमाणेन समर्थ्यानुपसंहारं च समर्थ यत्सूत्रं पठित्वा व्याचष्टे—आत्मशब्दाच्चेति॥ चोऽप्यर्थः । तथा च 'आ त्मशब्दात्' तद्घटितश्रुतेः अनुपसंहारोऽपि सिद्धयतीति सूत्रार्थमभि प्रेत्य श्रुत्युदाहरणपूर्वकं सूत्रं व्याचष्टे—आत्मेति । इति वाक्यमिति शेषः । अनुपसंहार इति । उपासनाक्षिताल्पगुणोपसंहारे प्रमाणमित्य र्थः । अन्यथा गुणान्तरव्यावृत्तिपूर्वकं आत्मत्वोपासनस्यैवात्र विधा नादसङ्गतेः । न च अवधारणस्य 'अन्यथात्वम्' इति सूत्रे अयोगव्य वच्छेदकत्वस्योक्तत्वात् कथमन्ययोगव्यवच्छेदकत्वमुच्यत इति वा च्यम् । उपसंहारानुपसंहारवद्ब्रह्मादीन् उत्तमाधिकारिणः प्रत्ययोग व्यवच्छेदकत्वं अधमाधिकारिणः प्रत्यन्ययोगव्यवच्छेदकत्वमित्यधि कारिभेदेनाविरोधात् ॥ ८ ॥ ॥ इति आख्यानाधिकरणम् ॥