पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 891, कुल 1267 में से
संदर्भ में पढ़ें८४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] न वाऽऽत्मशब्देन सर्वगुणगृहीतिः अधिकारिविशेषात् ॥२२॥ ( २ ) सू—ॐ ॥ दर्शयति च ॥ ॐ ॥ २३ ॥ 'सर्वान् गुणानात्मशब्दो ब्रवीति ब्रह्मादीनामितरेषां न चैव' इति भाल्लवेयश्रुतिः ॥ २३ ॥ —::— १४. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ सम्भृतिद्युव्याप्त्यपि चातः ॥ ॐ ॥ २४ ॥ वेति । वाशब्दो व्यवस्थितविकल्पे । आत्मशब्देनेत्यनेन सूत्रे आत्मगृ- हीतिरिति पदानुवृत्तिस्सूचिता । तथा च आत्मपदेन सर्वेषां गुणानां शुभधर्माणां गृहीतिरभिधानं न वा सर्वान् प्रति, किन्तु ब्रह्मादीन् प्र- त्येवेत्यर्थः । अस्य यत इति शेषेणाध्याहृतसाध्येनान्वयः । कुतो नेत्य- तस्तत्र हेतुत्वेन विशेषादित्यंशं व्याचष्टे—अधिकारिति । आत्मशब्द- स्य अधिकारिसामर्थ्यविशेषमपेक्ष्य तत्तद्योग्यगुणाभिधायकत्वादित्यर्थः ॥ ( २ ) विशेषादिति युक्तिसिद्धार्थं श्रुत्याऽपि समर्थयत्सूत्रं पठित्वा तां श्रुतिमुदाहरति —दर्शयति चेति ॥ न वेत्युक्तमर्थं श्रुतिरपि दर्शय- तीत्यर्थः । न केवलं युक्तिरिति चार्थः । बह्वर्थकोऽप्यात्मशब्दः 'ब्रह्मा- दीनां' ब्रह्मब्रह्माण्यादीन् प्रति 'सर्वान्' स्वयोग्यान् बहून् 'गुणान्' भगवद्धर्मान् 'ब्रवीति' ध्यानकाले युगपत्प्रकाशयतीत्यर्थः । 'इतरेषां' देवगन्धर्वाणां मनुष्योत्तमानां च न बहुगुणान्, किन्त्वल्पानित्यर्थः । यथोक्तं तत्त्वप्रदीपे— सर्वान् गुणानात्मशब्दो ब्रवीति ब्रह्मणः, ब्रह्म- ण्यादीनां शतं शतमूनान् क्रमादिति, न्यूनत्वायौग्यतायाः । अवरेषा- मल्पगुणानेवेति। अनेन यस्य यावन्तो गुणा आत्मशब्देन युगपत्प्रतीय- न्ते तेन तावन्तो ध्यातव्या इति हेतोः व्युत्पत्तिवशेनार्त्मशब्देन जाता प्रतीतिः न ध्यानोपयोगिनीत्युक्तं भवति ॥ १३ ॥ ॥ इति नवाधिकरणम् ॥ —— १४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे सम्भृत्यादिगुणस्य सर्वोपास्यत्वं नेत्युच्यते । मोक्षे स्वाधमभरणस्य प्रकाशव्याप्तेश्च सर्वापेक्षितत्वात् फलानुसारेण सम्भृतिद्युव्यापी सर्वोपास्ये इति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्या-