पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 895, कुल 1267 में से
संदर्भ में पढ़ें८४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] १६. अधिकरणम् ॥ ( १ ) सू- ॐ ॥ वेधाद्यर्थभेदात् ॥ ॐ ॥ २६ ॥ भिन्धि विद्ध्य शृणीहीति फलभेदेन सर्वशः । यत्यादीनां तेष्वयोगान्नाधिकारैकता भवेत् ॥ अयोग्योपासनादीयुरनर्थं चार्थनाशनम् । १६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे भेदनादिगुणानां सर्वोपास्यत्वं निरस्यते । स- र्वसज्जनापेक्षितदुष्टजननिग्रहफलकत्वेन वेधादीनां सर्वोपास्यत्वान्न च- तुर्गुणोपासनानियम इति प्राप्तं सिद्धान्तयत्सूत्रं पठति—वेधादीति ॥ अत्र वेधाद्यर्थभेदादित्येकं पदम् । वेधादीति भिन्नं चावर्तते । नेत्य- स्ति । तथा च ‘वेधादि’ रक्षोघ्नसूक्तं ‘ताभिर्विध्य हृदये यातुधानान् .... अग्ने त्वचं यातुधानस्य भिन्धि .... प्रपर्वाणि जातवेदःशृणीहि’ ( ऋ. १० - ८७ - ४, ५. ) इत्या- दिनोक्तं दुर्जनवेधनभेदनहिंसनादिकं न सर्वोपास्यं, कुतः ? यतो न यत्याद्युपास्ये, तदपि कुतः ? ‘वेधाद्यर्थभेदात्’ वेधाद्यर्थस्य तद्विषय- कोपासनफलस्य हिंसनस्य यत्यादियोग्यफलात् भेदात् विलक्षण- त्वात् । अयोग्यफलस्य चानर्थकफलसाधनत्वादिति सूत्रार्थमभिप्रे- त्यात्र स्मृतिं चाह—भिन्धीति ॥ ‘शृणीहि’ जहि । इतिशब्दानन्तरमु- पासनेष्विति शेषः । तथा चेत्थं योजना—हे भगवन् दुष्टान् भिन्धि विद्ध्य शृणीहीत्येवंरूपेषूपासनेषु ‘सर्वशः’ सर्वेषां ‘नाधिकारैकता’ नाधिकारसाम्यं भवेत् । एतदुपासनं सर्वाधिकारिसमं न भवेदिति यावत् । कुतः ? यत्यादीनां ‘तेषु’ उपासनेषु ‘अयोगात्’ अयोग्यत्वा- त् । तदपि कस्मात् ? ‘फलभेदेन’ फलभेदात् एतदुपासनफलानां य- त्यादियोग्यफलाद्विलक्षणत्वात् । नन्वयोग्यत्वेऽपि कुतो यत्यादीनां वे- धाद्युपासनाभाव इत्यत आह—अयोग्येति । यतोऽयोग्योपासनादनर्थ- मर्थनाशनं च ‘ईयुः’ प्राप्नुयुरत इति । बृहत्तन्त्रे इति । सूत्रकारोक्तः कथित इति शेषः । इदं त्ववधेयम् । यत्यादीनां ध्यानात्प्राक्प्राणायाम- करणकाले पापपुरुषशोषणदहनादिकमस्ति, न तु ध्यानकाले । तदा