पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 898, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १७. सू - २७. ] दीपिकासहितम्. ८५१ शेषत्वादितरेषाम्, तच्चोक्तम्। ‘एतत्साम गायन्नास्ते’ ( तै. ३-१०. ) इत्यादि । (४) ब्रह्मतर्के च । मुक्ता अपि हि कुर्वन्ति स्वेच्छयोपासनं हरेः । विधित एव किं न स्यादित्याशङ्कापरिहारायोक्तं सूत्रे—उपायनेति ॥ तत्रायनेन ज्ञानेन उप ब्रह्मसमीपे अयनं गमनं तस्य शब्दः उपायनश- ब्दो मोक्षस्य ज्ञानसाध्यताबोधकं वाक्यमिति भावेन तमंशं व्याचष्टे- ब्रह्मेति । इति मोक्षेति । इत्येवंरूपं यन्मोक्षस्य ज्ञानसाध्यताभिधायकं वाक्यं तच्छेषत्वात् तदर्थत्वात् तद्वाक्यविहितापरोक्षज्ञानसाधनविधा- यकत्वादित्यर्थः । ‘पुरुषविद्यायाम्’ इत्यतोऽस्य सम्बन्धिपदमनुवर्त- नीयमित्याह—इतरेषामिति । ‘श्रोतव्यो मन्तव्यः’ ( बृ.४-४-५. ) ‘त- द्विजिज्ञासस्व’ ( तै. ३ - १०.) इत्याद्युपासनविधीनामित्यर्थः । केचि- त्तु—इदमध्याहृतमित्याहुः । तत्त्वप्रदीपदिशा उपासनाशब्दशेषत्वादि- ति सूत्रपाठे उपासनाशब्दानां उपासनाविधीनां शब्दशेषत्वात् मोक्ष- वाक्यशेषत्वादित्यर्थः । अस्मिन् पक्षे उपासनेति व्यस्तं पदं समस्तं च । तत्र व्यस्तपदस्य कर्मोपलक्षकस्यार्थो भाष्यकृता उपासनादीत्य- नेन दर्शितः, न तु पृथक्तच्छब्दव्याख्यानं, न वा भावबोधरीत्याऽयं शे- षः । इतरेषामित्येतदपि श्रुतपदार्थकथनं, नानुवृत्तमिति ध्येयम् । भवे- दियं चिन्ता, यदि मुक्तस्योपासनमेव स्यात्, तदेव कुत इत्यतस्सूत्रे तदुक्तमित्युक्तं, तद्व्याचष्टे—तच्चेति । अनेन सूत्रे तुशब्दार्थोऽपि । स च तदित्यनेनापि सम्बध्यते । तथा च यदुपासनं श्रुतावुक्तं यत्त- स्य स्वेच्छायत्तत्वं तच्च ब्रह्मतर्के उक्तं चेति सूत्रांशयोजना दर्शिता भ- वति । श्रुतिं पठति—एतदिति । आदिपदात् ‘ऋचां त्वः पोषमास्ते’ (ऋ.१०-७१-११.) इत्यादि गृह्यते । इत्यादीति । इत्यादावित्यर्थः। ‘एतत्’ वक्ष्यमाणं ‘हावु’ (तै.३-१०-५.) इत्यादि साम गायन्नास्ते मुक्तचतुर्मुख इति तैत्तिरीयश्रुत्यर्थः । ‘त्वः’ कश्चिद्ब्रह्मा ‘पुपुष्वान्’ पुष्टस्सन् ऋचां ‘पो- षं’पुष्टिमुच्चारणं कुर्वन्नास्ते । ‘त्वः’ अन्यस्तु ब्रह्मा शक्वरीषु ऋक्षु गायत्रं साम गायति । त्वस्तु ब्रह्मा ‘जातविद्यां’ पौरुषेयविद्यां वदति । त्व- स्तु ब्रह्मा ‘यज्ञस्य’ विष्णोः ‘मात्रां’ उ अंशमेव ‘विमिमीते’ ध्यायती- ति ऋङ्मन्त्रार्थः ॥ (४) न केवलं श्रुतौ, किन्तु ब्रह्मतर्के चोपासनमुक्तमिति चशब्दा