भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 932, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 932

[ अधि - २८. सू - ४६. ] दीपिकासहितम्. ८८५ ( २ ) मानसक्रियावत् । यथोभयोर्ध्यानयोः समयोः । ( ३ ) पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि । गृह्णीयादविचारेण विकल्पः समयो र्भवेत् ॥ समग्रानुग्रहाभावात्सत्यकामस्स्वकं गुरुम् । ऋषभाद्यनुज्ञया चैव प्राप तस्माद्धि युज्यते ॥ इति बृहत्तन्त्रे ॥ इति यावत् । एवं पश्चात्तनः पूर्वस्मादधिकः समग्रानुग्रहं करोति चेत् तदा स्वयमेव पूर्वानुज्ञां विना ‘अविकल्पः’ असंशयः, पूर्वं परित्य ज्योत्तमो गुरुस्वीकार्यस्स्यात् । एवं पश्चात्तनः पूर्वस्मादधमश्चेत्तदात्या गे ‘अविकल्पो’ नियमत्याग एव न स्यात् । ‘गुणाधिकं गुरुं प्राप्य तर्द्धा नं नाप्नुयात्क्वचित्’ इति वचनात् । पूर्वस्मादधमः समग्रानुग्रहं क रोति चेत् स्वीकारे विकल्पः स्यात् पूर्वानुज्ञया ग्राह्य एव स्यात् । य थोक्तं तत्त्वप्रदीपे, अतः सिद्धं समग्रानुग्रहे तूत्तमस्य तदनुज्ञया वरः प्राप्य इतीति योजना ॥ ( २ ) साम्ये विकल्प इत्यत्र सूत्रोक्तं दृष्टान्तमर्थक्रमेण व्याचष्टे— मानसेति ॥ अनेन सूत्रे षष्ठीद्विवचनान्ताद्धतिः । क्रिया धात्वर्थः ध्या यत्यर्थो ध्यानम् । मानसी मनोवृत्तिरूपा च सा क्रिया च कडारादि त्वात्परनिपातः इत्युक्तं भवति । मानसक्रियावदिति स्वपदं वर्णय ति—यथेति । विकल्पः स्यादिति सम्बन्धः । ‘उभयोः’ रामकृष्णा दिरूपद्वयविषययोः नीलपीतादिरूपद्वयविषययोर्वेत्यर्थः । ‘समयोः’ फलतः समयोरेव विकल्पः नोत्तमाधमयोरिति ॥ ( ३ ) अत्र स्मृतिमाह—पूर्वस्मादिति ॥ यदि ‘पूर्वस्मात्’ पूर्व गृहीतात् उत्तमो गुरुर्लब्धस्तदा असौ अविचारेणासंशयं स्वयमेव पूर्वानुज्ञां विना गृह्णीयादित्यर्थः । ‘समयोः’ ज्ञानादितः । पूर्वोत्तरयो रिति च त्यागस्वीकारयोरिति च शेषः । यदि पूर्वस्मादुत्तमोऽविचा रेण स्वीकार्यः, तर्हि कथमृषभादयः सत्यकामेन न गृहीताः, प्रत्युत पूर्वतन एव प्राप्तोऽतो नैतद्युक्तमित्यत आह—समग्रेति । ‘हि’ यस्मा त्सत्यकामः ऋषभादीनां एकैकस्मादेव ‘समग्रानुग्रहाभावात्’ तैस्त दकरणात् ऋषभाद्यनुज्ञयैव ‘स्वकं’ स्वयोग्यावदुपदेशकत्वेन स्व योग्यमेव गुरुं गौतमं ‘प्राप’ जग्राह, न तूत्तमान्, तस्मात्पूर्वपरित्यागे न समग्रानुग्रहकर्ता उत्तमः समो वा स्वीकार्य इत्येतद्युज्यत इत्यर्थः ॥