पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 948, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३५. सू - ५६. ] दीपिकासहितम्. ९०१ न्तव्यम्, कुतः ? सू—ॐ ॥ एक आत्मनश्शरीरे भावात् ॥ ॐ ॥ ५५ ॥ अंशांशिनोरेकत्वमेव । अंशिकर्मविनिर्मितशरीर ए वांशस्य भावात् ॥ ५५ ॥ ( २ ) सू—ॐ ॥ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥ ५६ ॥ ते । तत्र ‘उपलब्धिवत्, व्यतिरेकः' इत्याभ्यां सूचितहेतूक्तिपूर्वकं पू- र्वपक्षयति—जीवेति ॥ उपासनादाविति शेषः । पृथगिति भिन्नं पदं पृ- थक्त्वादित्यर्थः। तथा च नोपासनाद्यर्थं योग्यताऽपेक्षाऽस्ति । कुतः? यो- ग्यतायाः सादित्वे तद्दुपासनस्याप्यागन्तुकत्वप्रसङ्गात् अनादित्वं वाच्यम् । तच्च न युक्तं यत इन्द्रादिजीवांशानामर्जुनादीनां योग्यता नानादिः । न चासिद्धिः । इन्द्रादिजीवांशानामुत्पत्तेः सादित्वात् । ध- र्मिण एव सादित्वे तद्धर्मभूतयोग्यताया अनादित्वायोगादिति भावः । न चांशिनोऽनादित्वात् कथमंशानामुत्पत्तिः तयोरैक्यादिति वाच्यम् । इन्द्राद्यंशिजीवेभ्यस्तदंशानां पृथक्तवात् भिन्नत्वात् । न चासिद्धिः। अं- शानामिन्द्रादिजीवेभ्यः पृथक्तवात् ज्ञानसुखादौ अनुसन्धानाननुस- न्धानाख्यवैलक्षण्यवत्त्वादिति योजना । एवं प्राप्तं पूर्वपक्षं प्रतिषेधति- नेति । कुतो न मन्तव्यमित्याक्षिपति—कुत इति । तत्परिहाराय सूत्र- मुपन्यस्य व्याचष्टे—एक इति । अत्र अंशोंशी चैक एवेति योजनाम- भिप्रेत्य एक इति प्रतिज्ञावाक्यतातपर्यमाह—अंशेति । कुत इत्यतः ष- ष्ठ्यर्थोक्तिपूर्वकं आत्मनश्शरीरे भावादिति हेत्वंशं व्याचष्टे—अंशीति । ‘भावात्' अभिमानितया सत्त्वादित्यर्थः । अनेनात्मांश आत्मना अंशि- ना एक एव, न भिन्नः कर्मनिर्मितशरीरे आत्मनोंशस्य भावात्सत्त्वादि- ति सूत्रार्थ उक्तो भवति ॥ ( २ ) ननु ज्ञानादिभेदादंशांशिनोर्भेद एव युक्तो नाभेद इत्याश- ङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—व्यतिरेक इति ॥ ज्ञानं वृत्तिरूपम् । आदिशब्देन तादृशसुखादिर्गृह्यते । व्यतिरेकशब्दार्थो भेद इति सप्त- म्यन्ताद्व्यतिरिक्त इति भावेन भेद इति सप्तमीप्रयोगः । आत्मनोरिति विपरि- णतपदस्यार्थः—अंशांशिनोरिति । पृथग्भाव इत्यनेन व्यतिरेकशब्द- स्योपमानोपमेययोरन्वयो दर्शितः। एवेति तुशब्दस्यार्थः । अनेनात्म- नोनोपलब्धिवद्व्यतिरेक इति प्रतिज्ञांशो व्याख्यातः । कुत इत्यतस्त- दुत्तरत्वेन तद्भावभावित्वादिति हेत्वंशं व्याचष्टे—तदुपासनादीति ।