पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 95, कुल 1267 में से
संदर्भ में पढ़ें४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] (११३) न च वैष्णवेषु तथा। तच्च “एष मोहं” इत्युक्तम् ॥ ते। 'यद्वत्' इति श्रवणात् 'तद्वत्' इति लक्ष्यते। चशब्दौ समुच्चयार्थी। 'अस्माभिः' इत्यत्र शिवश्चान्ये च अहं च वयं तैरित्येकशेषः। तथा च यद्यपि वयं 'तच्छक्त्येकांशभागिनः' तस्याच्युतस्य या शक्तिः साम- र्ध्यं तस्यैकांशभागिनो न भवामः तथाऽपि 'यद्वत्' यथा 'बालः क्रीडन- कैः' क्रीडासाधनपदार्थैः 'क्रीडते' 'तद्वत्' तथा 'अच्युतो' हरिरपि 'अ- स्माभिः' करणैः 'क्रीडते' सृष्ट्यादिक्रीडां करोतीत्यर्थः। पुनर्न चेत्युक्तिः तात्पर्यार्था, 'ना' पुरुष इति वा। इतिशब्दस्य इति ब्रह्मवैवर्ते इत्यन्व- यः। 'स्कान्दे' 'ब्रह्मवैवर्ते' इत्यनयोः 'वचनात्' इतिपदद्वारा 'न चेतर- ग्रन्थविरोधः' इत्यनेनान्वयः। तथा च तेषां शैवादित्वेऽपि न विरो- धित्वम्, तत्राऽपि विष्णूत्तमत्वादेरप्युक्त्या स्वविरोधेन शिवाद्युत्क- र्षेऽप्रामाण्यात्। न च विपरीतं किं न स्यादिति वाच्यम्, शिवाद्युत्क- र्षादेः शैवादिपुराणेष्वेवासाधारण्येन प्राप्तत्वात्, तत्रैव विष्णूत्कर्षो- क्तौ तत्र प्रामाण्यस्य शिवाद्युत्कर्षादावप्रामाण्यस्य च निश्चयेन वैप- रीत्यायोगात्। तस्मात्पाशुपतादिपरिकल्पितशिवाद्युत्तमत्वपरिपाटी- दर्शनभाषया तेषूपन्यस्यत इति न तद्विरोध इति भावः ॥ (११३) तथाऽपि विष्णूत्तमत्वरुद्राधमत्वयोर्वैष्णवग्रन्थविरोधोऽ स्तीत्यत आह—'न च' इति। समुच्चये चशब्दः। तथा च—'वै- ष्णवेषु' विष्णुविषयपुराणादिष्वपि 'तथा' विष्णोरन्यस्योत्तमत्वमु- क्तं न, अत एव 'तथा' शैववत् सर्वोत्तमत्वाधमत्वविषये विरोधो ने- त्यर्थः, येन स्वविरोधेन स्वविषयेऽप्रामाण्यं स्यादिति भावः। तर्हि वैष्णवेषु रामकृष्णादिविष्णुकर्तृकशिवस्तुत्यादि कथमुच्यत इत्यत आह—'तच्च' इति। चस्त्वर्थः। वचनादित्यनुवर्तते। तदित्यस्यावृ- त्तिः। तथा च–चो यतो वैष्णवेषु यच्छिवस्तुत्याद्युच्यते तत्तु 'एष मोहं' इति वचनाज्ज्ञातेन तेन मोहार्थत्वेन 'उक्तं' प्रत्युक्तं समाहि- तं इत्युक्तमित्यर्थः। अस्य 'अतो न तद्विरोधः' इत्यध्याहृतेनान्वयः॥ ॥ इति जिज्ञासाधिकरणम् ॥ ───※───