पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 989, कुल 1267 में से
संदर्भ में पढ़ें९४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] ( १३ ) सू—ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ ॐ ॥२१॥ स्तुतिमात्रमेव स्वेच्छाचरणं न विधिः । तैरपि सामा न्यविधिस्वीकारादिति चेन्न, अपूर्वत्वात् परवशत्वा त् । सर्वविध्यतिक्रमेण स्तुतिमात्रविषयत्वं परब्रह्मण एव हि ॥ ( १४ ) विधीनां विषयास्त्वन्ये ब्रह्मणः स्वेच्छया कृतौ । त् ज्ञानिनामपि केषां चिदेवेति सूचितम् । विषयभेदं प्रकटयति—स्वे च्छयैवेत्यादिनेति । अनेनात्रैव विषयविभागः क्रियत इत्युक्तम् । तन्तु वक्ष्यमाणरीत्या वस्तुस्थित्यभिप्रायकमेवेति ध्येयम् ॥ ( १३ ) उक्तमाक्षिप्य समादधत्सूत्रं पठति—स्तुतीति ॥ अत्राक्षेपां शं व्याचष्टे—स्तुतीति । ' स्वेच्छाचरणं ' ' येन स्यात् ' इति स्वेच्छा [L1