भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 105, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 105

४६ रघुवंशमहाकाव्ये

लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावम् । रक्षापदेशान्मुनिहोमधेनोर्वन्‍यान्विनेष्यन्निव दुष्टसत्त्वान् ॥ ८ ॥

अन्वयः—लताप्रतानोद्ग्रथितैः केशैः अधिज्यधन्वा स मुनिहोमधेनोः रक्षापदेशात् वन्यान् दुष्टसत्त्वान् विनेष्यन् इव दावं विचचार ॥ ८ ॥

लतेति । लतानां वल्लीनां प्रतानैः कुटिलतन्तुभिरुद्ग्रथिता । उन्नमय्य ग्रथिता ये केशास्तैरुपलक्षितः । 'इत्थम्भूतलक्षणे' इति तृतीया । स राजा अधिज्यमारोपितमोर्वीकं धनुर्यस्य सोऽधिज्यधन्वा सन् । 'धनुषश्च' इत्यनङादेशः । मुनिहोमधेनोः रक्षापदेशाद्रक्षणव्याजाद् । वन्यान् वने भवान् दुष्टसत्त्वान् दुष्टजन्तून् 'द्रव्यासव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु' इत्यमरः । विनेष्यन् शिक्षयिष्यन्निव दावं वनम् 'वने च वनवह्नौ च दावो दव इहेष्यते' इति यादवः । विचचार । वने चचारेत्यर्थः । 'देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' इति दावस्य कर्मत्वम् ।

भाषार्थ—लतातन्तुओं से गूंथे हुए केश वाले, प्रत्यक्ष चढ़े हुए धनुष को धारण किए वे राजा दिलीप वसिष्ठ ऋषि के धेनु की रक्षा के बहाने जंगली दुष्ट जीवों को मानों शिक्षा देते हुए वन में विचरने लगे ॥ ८ ॥


विसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृतः समस्य । उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ॥ ९ ॥

अन्वयः—विसृष्टपार्श्वानुचरस्य पाशभृता समस्य तस्य पार्श्वद्रुमाः उन्मदानां वयसां विरावैः आलोकशब्दं उदीरयामासुः इव ।

विसृष्टेति । विसृष्टाः पार्श्वानुचराः पार्श्ववर्तिनो जना येन तस्य । पाशभृता वरुणेन समस्य तुल्यस्य । 'प्रचेता वरुणः पाशी' इत्यमरः । ऽनुभावो येन सूचितः । तस्य राज्ञः पार्श्वयोर्द्रुमाः । उन्मदानामुत्कटमदानां वयसां खगानाम् । 'खगवाल्यादिनं वयः' इत्यमरः । विरावैः शब्दैः । आलोकस्य शब्दं वाचक्रमालोकयेति शब्दं जयशब्दमित्यर्थः । 'आलोको जयशब्दः स्याद्' इति विश्वः । उदीरयामासुरिवावदन्निव, इत्युत्प्रेक्षा ।

भाषार्थ—पार्श्ववर्ती सेवकों को लौटा देने वाले, वरुण के समान उस राजा के अगल-बगल के वृक्षों ने उन्मत्त पक्षियों के कलरव से मानों जयकार किया ॥ ९ ॥


मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्त्तमानम् । अवाकिरन्वाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ॥ १० ॥

अन्वयः—मरुत्प्रयुक्ताः बाललताः च आरात् अभिवर्तमानं मरुत्सखाभं अर्च्यं तं प्रसूनैः पौरकन्याः आचारलाजैः इव अवाकिरन् ।