रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 112, कुल 735 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः ५३
**भाषार्थ—**पालक राजा दिलीप पत्नीसहित पास में रखे हुए पूजोपहार और दीपक वाली नन्दिनी के निकट बैठ, उसके सोने के बाद सोते थे और सुबह उसके उठने के बाद उठते थे ॥ २४ ॥
इत्थम् व्रतं धारयतः प्रजाथं समं महिष्या महनीयकीर्तेः । सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥ २५ ॥
**अन्वयः—**इत्थं प्रजाथं महिष्या समं व्रतं धारयतः महनीयकीर्तेः दीनोद्धरणोचितस्य तस्य त्रिगुणानि सप्त दिनानि व्यतीयुः ।
इत्थमिति । इत्थमनेन प्रकारेण प्रजाथं सन्तानाय महिष्या समभिषिक्तपत्न्या सह । 'कृताभिषेका महिषी' इत्यमरः । व्रतं धारयतः महनीया पूज्या कीर्तिर्यस्य तस्य, दीनानाममुद्धरणं दैन्यविमोचनं तत्रोचितस्य परिचितस्य तस्य नृपस्य, त्रयो गुणा आवृत्तयो येषां तानि त्रिगुणानि त्रिरावृत्तानि सप्त दिनान्येकविंशतिदिनानि व्यतीयुः ।
**भाषार्थ—**इस प्रकार पुत्रप्राप्ति के लिए अपनी धर्मपत्नी सुदक्षिणा के साथ व्रत को धारण करते हुए यशस्वी एवं दीनों के संरक्षक राजा दिलीप के त्रिगुण सात ( ७ × ३ = २१ ) दिन बीत गये ॥ २५ ॥
अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तरुढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥ २६ ॥
**अन्वयः—**अन्येद्युः मुनिहोमधेनुः आत्मानुचरस्य भावं जिज्ञासमाना (सती) गङ्गाप्रपातान्तरूढशष्पं गौरीगुरोः गह्वरम् आविवेश ॥ २६ ॥
अन्येद्युरिति । अन्येद्युरन्यस्मिन्दिने द्वाविंशे दिने । 'सद्यः परुत्परा०' इत्यादिना निपातनादव्ययत्वम् । 'अद्यात्राह्वाय पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् । तथाऽधरान्यान्यतरेतरात्पूर्वेद्युरादयः' इत्यमरः । मुनिहोमधेनुः । आत्मानुचरस्य भावः मभिप्रायं दृढभक्तित्वम् । 'भावोऽभिप्राय आशयः' इति यादवः । जिज्ञासमाना ज्ञातुमिच्छन्ती । 'ज्ञाश्रुस्मृदृशां सनः' इत्यात्मनेपदे शानच् । प्रपतन्त्यस्मिन्निति प्रपातः पतनप्रदेशः । गङ्गायाः प्रपातस्तस्यान्ते समीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्मिंस्तत् । 'शष्पं बालतृणं घासः' इत्यमरः । गौरीगुरोः पार्वतीपितुर्गह्वरं गुहामाविवेश ।
**भाषार्थ—**बाईसवें दिन महर्षि वसिष्ठ की होमसाधनभूत नन्दिनी अपने