रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 117, कुल 735 में से
संदर्भ में पढ़ें५८ रघुवंशमहाकाव्ये
अमुमिति। पुरोऽग्रतोऽमुं देवदारुं पश्यसि इति काकुः। असौ देवदारुः। वृषभो ध्वजो यस्य स तेन शिवेन पुत्रीकृतः पुत्रत्वेन स्वीकृतः। अभूततद्भावे च्च्विः। यो देवदारुः स्कन्दस्य मातुर्गौर्या हेम्नः कुम्भ एव स्तनस्तस्मान्निःसृतानां पयसामम्बूनां रसज्ञः स्वादज्ञः स्कन्दपक्षे-हेमकुम्भ इव स्तन इति विग्रहः। क्षीरा- णाम्। 'पयः क्षीरं पयोऽम्बु च' इत्यमरः। स्कन्दसमानप्रेमास्पदमिति भावः।
भावार्थ—सामने उस देवदारु वृक्ष को देख रहे हो न ? उसे शंकर जी ने पुत्र के समान माना है जो कात्तिकेय की माता पार्वती के सोने के घटरूपी स्तनों से निकले हुए दूधरूपी जल के स्वाद को जानने वाला है ॥ ३६ ॥
कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य। अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः ॥ ३७ ॥
अन्वयः—कदाचित् कटं कण्डूयमानेन वन्यद्विपेन अस्य त्वक् उन्मथिता। अथ अद्रेः तनया असुरास्त्रैः आलीढं सेनान्यम् इव एनं शुशोच।
कण्डूयेति। कदाचित्कटं कपोलं कण्डूयमानेन घर्षयता। 'कण्ड्वादिभ्यो यक्' इति यक् ततः शानच्। वन्यद्विपेनास्य देवदारोस्त्वगुन्मथिता। अथाद्रेस्तनया गौरी असुरास्त्रैरालीढं क्षतम्। सेनां नयतीति सेनानीः स्कन्दः। 'पार्वतीन्दनः स्कन्दः सेनानीः' इत्यमरः। 'सत्सूद्विष-' इत्यादिना क्विप्। तमिव, एनं देवदारुं शुशोच।
भावार्थ—किसी समय कनपटी खुजलाते २ एक जंगली हाथी ने इस देवदारु वृक्ष की छाल को छुड़ा दिया था। तब हिमालय की पुत्री पार्वती ने दैत्यों के अस्त्रों से घायल कात्तिकेय के समान इस देवदारु के प्रति शोक किया था।
तदाप्रभृत्येव वनद्विपानां त्रासाथंमस्मिन्नहमद्रिकुक्षौ। व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्तिः ॥ ३८ ॥
अन्वयः—तदाप्रभृति- एव, वनद्विपानां, त्रासार्थं, शूलभृता, अङ्कागतसत्त्ववृत्तिः, सिंहत्वं, विधाय, अस्मिन् अद्रिकुक्षौ अहं व्यापारितः।
तदेति। तदा तत्कालः प्रभृतिरादिर्यस्मिन्कर्मणि तत्तथा तदाप्रभृत्येव वन- द्विपानां त्रासार्थं भयार्थं शूलभृता शिवेन, अङ्कं समीपमागताः प्राप्ताः सत्त्वाः प्राणिनो वृत्तिर्यंस्मिंस्तत् 'अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराघयः' इति केशवः। सिंहत्वं विधाय। अस्मिन्नद्रिकुक्षौ गुहायामहं व्यापारितः नियुक्तः।
भावार्थ—उसी समय से ही जंगली हाथियों को डराने के लिए शिवजी ने समीप में आए हुए प्राणियों से जीवन निर्वाह करने वाली सिंहवृत्ति देकर मुझे इस पर्वत की गुफा में नियुक्त कर दिया है ॥ ३८ ॥