भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 120, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 120

द्वितीयः सर्गः

६१

धास्ये वक्ष्यामि । वच इति प्रकृतं कर्म सम्बद्ध्यते । अन्ये त्वीदृग्वचनमाकर्ण्या- सम्भावितार्थमेतदित्यपहसन्ति, अतस्तु मौनमेव भूषणम् । त्वं तु वाङ्मनसयो- रेकविध एवायमिति जानासि । अतोऽभिधास्ये यद्वचोऽहं विवक्षुरित्यर्थः ।

भाषार्थ—मृगेन्द्रराज ! असफलप्रवास होने से मेरी यह बात अत्यन्त हास्या- स्पद है, जिसे मैं कहने जा रहा हूँ, तथापि आप प्राणियों के मनोगत सभी भावों को जानते हैं इसलिए मैं कहूँगा ॥ ४३ ॥

मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः ।
गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ॥ ४४ ॥

अन्वयः—स्थावरजंगमानां सर्गस्थितिप्रत्यवहारहेतुः, सः मे मान्यः पुरस्तात् नश्यत् इदम् आहिताग्नेः गुरोः धनम् अपि अनुपेक्षणीयम् ।

मान्य इति । प्रत्यवहारः प्रलयः । स्थावराणां तरुशैलादीनां जङ्गमानां मनुष्यादीनां सर्गस्थितिप्रत्यवहारेषु हेतुः स ईश्वरो मे मम मान्यः पूज्यः । अलङ्घ्यशासन इत्यर्थः । शासनं च 'सिंहत्वमङ्कागतसत्त्ववृत्तिः (२।३८) इत्युक्त- रूपम् । तर्हि विसृज्य गम्यताम् । नेत्याह—गुरोरपीति । पुरस्तादग्रे नश्यदिद- माहिताग्नेर्गुरोधनमपि गोरूपमनुपेक्षणीयम् ! आहिताग्नेरिति विशेषणेनानुपेक्षा- कारणं हविः साधनत्वं सूचयति ।

भाषार्थ—वृक्ष पर्वत आदि स्थावर और मनुष्यादि जङ्गम के उत्पत्ति पालन और नाश करने वाले वे शिवजी मेरे पूजनीय हैं (किन्तु) अग्निहोत्री गुरु का सम्मुख नष्ट होता हुआ यह गौरूपी धन भी तो उपेक्षा न करने के लायक है ॥ ४४ ॥

स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्त्तयितुं प्रसीद ।
दिनावसानोत्सुकबालवत्सां विसृज्यतां धेनुरियं महर्षेः ॥ ४५ ॥

अन्वयः—सः त्वं मदीयेन देहेन शरीरवृत्तिं जीवनं निर्वर्त्तयितुं प्रसीद । दिनावसानोत्सुकबालवत्सां महर्षेः इयं धेनुः विसृज्यताम् ।

स इति । सोऽङ्कागतसत्त्ववृत्तिस्त्वं मदीयेन देहेन शरीरस्य वृत्तिं जीवनं निर्वर्त्तयितुं सम्पादयितुं प्रसीद । दिनावसाने उत्सुको माता समागमिष्यतीत्यु- त्कण्ठितो बालवत्सो यस्याः सा महर्षेरियं धेनुर्विसृज्यताम् ।

भाषार्थ—वह तू मेरे शरीर से अपने शरीर के जीवन को सम्पादन करने लिए प्रसन्न हो । सन्ध्याके समय उत्कण्ठित छोटे बछड़े वाली महर्षि की इस नन्दिनी गौ को छोड़ दो ॥ ४५ ॥

अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वरपार्श्ववर्ती किञ्चिद्विहस्यार्थपतिं बभाषे ॥ ४६ ॥

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या) · पृष्ठ 120, कुल 735 में से · BharatKosha