भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 134, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 134

तृतीयः सर्गः ७५

धारणमात्रमुच्यते । तथा मन्त्रे च दृश्यते "यथेयं पृथिवी मह्युत्ताना गर्भमादधे । एवं त्वं गर्भमाधेहि दशमे मासि सूतवे" । इत्याश्वलायनानां सीमन्तमन्त्रे स्त्रीव्या- पारधारण आधानशब्दप्रयोगदर्शनादिति । मालिनीवृत्तमेतत् । तदुक्तम् - 'ननमय- ययुतेयं मालिनी भोगिलोकैः' इति लक्षणात् । इति संजीवनीव्याख्यायां नन्दिनीवरप्रदानो नाम द्वितीयः सर्गः । भाषार्थ - इसके बाद आकाश के द्वारा चन्द्रमा की तरह, गङ्गा के द्वारा शिव के फेंके हुए तेज (वीर्य) की तरह, रानी सुदक्षिणा ने रघुवंश की वृद्धि के लिये लोकपालों के तेज से गर्भ को धारण किया ॥ ७५ ॥ त्रिपाठयुपाह्व पं० श्रीकृष्णमणिकृत चन्द्रकला टीका में द्वितीय सर्ग समाप्त ।

⁂ ⁂ ⁂

तृतीयः सर्गः

'राज्ञी सुदक्षिणा गर्भमाधत्त' (२-७५) इत्युक्तम् । सम्प्रति गर्भलक्षणानि वर्णयितुं प्रस्तौति—

अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् ।
निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दोर्हदलक्षणं दधौ ॥ १ ॥

अन्वयः — अथ सुदक्षिणा उपस्थितोदयं भर्तुः ईप्सितं सखीजनोद्वीक्षणकौमुदीमुखं इक्ष्वाकुकुलस्य सन्ततेः निदानं दोर्हदलक्षणं दधौ ।

उपाधिगम्योऽप्यनुपाधिगम्यः समावलोक्योऽप्यसमावलोक्यः ।
भावोऽपि योऽभूदभवः शिवोऽयं जगत्यपायादरिनः स पायात् ॥

अथेति । अथ गर्भधारणानन्तरं सुदक्षिणा । उपस्थितोदयं प्राप्तकालं भर्तुर्दिलीपस्येप्सितं मनोरथम् । भावे क्तः । पुनः सखीजनस्योद्वीक्षणानां दृष्टानां कौमुदीमुखं चन्द्रिकाप्रादुर्भावम् । यद्वा कौमुदी नाम दीपोत्सवतिथिः । तदुक्तं भविष्योत्तरे — "कौ मोदन्ते जना यस्यां तेनासौ कौमुदी मता" इति । तस्या मुखं प्रारम्भम् । 'सखीजनोद्वीक्षणकौमुदी' इति पाठं केचित्पठन्ति । इक्ष्वाकुकुलस्य सन्ततेरविच्छेदस्य निदानं मूलकारणम् । 'निदानं त्वादिकारणम्' इत्यमरः । एवंविधं दोर्हदलक्षणं गर्भचिह्नं वक्ष्यमाणं दधौ । स्वहृदयेन गर्भहृदयेन द्विहृदया गर्भिणी । यथाऽह वाग्भटः — "मातृजमस्य हृदयं मातुश्च हृदयेन तत् । सम्बद्धं तेन गर्भिण्याः श्रेष्ठं श्रद्धाभिमाननम्" । इति । तत्सम्बन्धित्वाद् गर्भो दोर्हदमित्युच्यते । सा च तद्योगाद्दोर्हदिनीति । तदुक्तं संग्रहे — 'द्विहृदयां नारीं दोर्हदिनी