भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 140, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 140

तृतीयः सर्गः ८१

हैमः । ‘भृतिर्भर्म’ इति शाश्वतः । भृतो मनिच्प्रत्ययः । ‘गर्भकर्मणि इति पाठे गर्भाधानप्रतीतावोचित्यभङ्गः । अनुष्ठिते कृते सति । काले दशमे मासि । अन्यत्र ग्रीष्मावसाने । प्रसवस्य गर्भमोचनस्योन्मुखीम् । आसन्नप्रसवा- मित्यर्थः । ‘स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने’ इत्यमरः । प्रियां भार्याम् । अप्राण्यस्याः सञ्जातार्त्तवां ताम् । ‘तदस्य सञ्जातं तारकादिभ्य इतच्’ इतो- तच्प्रत्ययः । दिवमिव । पतिर्भर्त्ता प्रतीतो हृष्टः सन् । ‘ख्याते हृष्टे प्रतीत:’ इत्यमरः । ददर्श दृष्टवान् ।

भाषार्थ—बाद में बालचिकित्सा में कुशल विश्वासपात्र वैद्यों से गर्भ की पुष्टि की जाने पर राजा दिलीप ने प्रसन्न हो दशवें मास में शीघ्र पुत्र जननेवाली सुद- क्षिणा को तत्काल बरसने वाले मेघों से व्याप्त आकाश की भांति देखा ॥ १९ ॥

ग्रह्रैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्यसम्पदम् । असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम् ॥ १३ ॥

अन्वयः—ततः समये शचीसमा (सा) उच्चसंश्रयै असूर्यगैः पञ्चभिः ग्रहैः सूचितभाग्यसंपदं पुत्रं त्रिसाधना शक्तिः अक्षयम् अर्थम् इव असूत ।

ग्रहेरिति । ततः शच्येन्द्राण्या समा । ‘पुलोमजा शचीन्द्राणी’ इत्यमरः । सा सुदक्षिणा समये प्रसूतिक़ाले सति दशमे मासीत्यर्थः । ‘दशमे मासि जायते’ । इति श्रुतेः । उच्चसंश्रयैरुच्चसंस्थैस्तुङ्गस्थानगैरसूर्यगैरनस्तमितैः कैश्चिद् यथा- सम्भवं पञ्चभिर्ग्रहैः सूचिता भाग्यसम्पद्यस्य तं पुत्रम् । त्रीणि प्रभावमन्त्रोत्सा- हात्मकानि साधनान्द्युत्पादकानि यस्याः सा त्रिसाधना शक्तिः । ‘शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजा’ इत्यमरः । अक्षयमर्थमिव । असूत । ‘षूङ् प्राणिगर्भविमो- चने’ इत्यात्मनेपदिषु पठ्यते । तस्माद्धातोः कर्त्तरि लङ् । अत्रेद्मनुसंधेयम्— ‘अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः । दशशिखिमनु- युक्तिथीन्द्रियांशैस्त्रिनवविंशतिभिश्च तेज्ऽतनीचा’ ।। इति सूर्यादीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः श्लोकोक्तक्रमविशिष्टा उच्चस्थानानि स्वस्वतुङ्गा- पेक्षया सप्तमस्थानानि च नीचानि । तत्रोच्चेस्वपि दशमादयो राशित्रिंशांशा यथाक्रममुच्चेषु परमोच्चा नीचेषु परमनीचा इति जातकश्लोकार्थः । बन्त्रांश- स्त्रिंशो भागः । यथाऽऽह नारदः-“त्रिंशद्भागात्मकं लग्नम्” इति । सूर्यप्रत्या- सत्तिर्ग्रहाणामस्तमयो नाम। तदुक्तं लघुजातके-“रविणाऽतमयो योगो वियोग- स्तूदयो भवेत्” इति । ते च स्वोच्चस्थाः फलन्ति नास्तगा नापि नीचगाः । तदुक्तं राजमृगाङ्के—‘‘स्वोच्चे पूर्णं” स्वक्षर्केऽद्धं सुहृद्भे पादं द्विभेऽल्पं शुभं खेचरेन्द्राः । नीचस्थायी नास्तगो वा न किञ्चित्पादं नूनं स्वत्रिकोणे ददाति” । इति

६ २० सम्पृ०