रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 150, कुल 735 में से
संदर्भ में पढ़ेंतृतीयः सर्गः ६१
राज कन्याएँ उस उत्तम पति को पाकर दक्षप्रजापति पुत्रीवत् सुशोभित हुईं ॥३३॥
सम्प्रति यौवराज्ययोग्यतामाह—
युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकन्धरः ।
वपुः प्रकर्षादजयद् गुरुं रघुस्तथाऽपि नीचैर्विनयाददृश्यत ॥ ३४ ॥
अन्वयः—युवा युगव्यायतबाहुः अंसलः कपाटवक्षाः परिणद्धकन्धरः रघुः वपुः प्रकर्षात् गुरुम् अजयत् । तथापि (स) विनयात् नीचैः अदृश्यत ।
युवेति । युवा युगो नाम धुर्यस्कन्धगः सच्छिद्रप्रान्तो यानाङ्गभूतो दारुविशेषः । यानाद्यङ्गे 'युगः पुंसि युगं युग्मे कृतादिषु' इत्यमरः । युगवद् व्यायतौ दीर्घौ बाहू यस्य सः । अंसावस्य स्त इत्यंसलो बलवान् मांसलश्चेति वृत्तिकारः । 'बलवान्मांसलोंऽसलः' इत्यमरः । 'वत्सांसाभ्यां कामबले' इति लच्प्रत्ययः । कपाटवक्षाः परिणद्धकन्धरो विशालग्रीवः । 'परिणाहो विशालता' इत्यमरः । रघुर्वपुषः प्रकर्षादाधिक्याद्यौवनकृताद् गुरुं पितरमजयत् । तथाऽपि विनयात् नम्रत्वे नीचैरल्पकोऽदृश्य । अनेनानौद्धत्यं च विवक्षितम् ।
भाषार्थ—युवा, जूआ की तरह लम्बी भुजावाले, बली किवाड़ के समान चौड़ी छाती वाले और चौड़े कन्धे वाले रघुने शरीर की उत्कृष्टता से पिता को जीत लिया, तो भी वे नम्रता से छोटे दिखाई पड़ते थे । ३४ ॥
सम्प्रति तस्य यौवराज्यमाह—
ततः प्रजानां चिरमात्मना धृतां नितान्तगुर्वी लघयिष्यता धुरम् ।
निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् ॥ ३५ ॥
अन्वयः—ततः आत्मना चिरं धृतां नितान्तगुर्वी प्रजानां धुरं लघयिष्यता नृपेण 'असौ निसर्गसंस्कारविनीतः' इति युवराजशब्दभाक् चक्रे ।
तत इति । तत आत्मना चिरं धृतां नितान्तगुर्वीम् । 'वोतो गुणवचनात्' इति ङीष् । प्रजानां धुरं पालनप्रयासं लघयिष्यता लघुं करिष्यता । 'तत्करोति तदाचष्टे' इति लघुशब्दाण्णिच् ततो 'लृटः सद्वा' इति शतृप्रत्ययः । नृपेण दिलीपेनासौ रघुनिसर्गेण स्वभावेन, संस्कारेण शास्त्राभ्यासजनितवासनया च विनीतो नम्र इति हेतोः । युवराज इति शब्दं भजतीति तथोक्तः । 'भजो ण्विः' इति ण्विप्रत्ययः । चक्रे कृतः । “द्विविधो विनयः स्वाभाविकः कृत्रिमश्च" इति कोटिल्यः । तदुभयसम्पन्नत्वात्पुत्रं युवराजं चकारेत्यर्थः । अत्र कामन्दक - “विनयोपग्रहान्मूर्ये कुर्वीत्र नृपतिः सुतान् । अविनीतकुमारं हि कुलमाशु विशीर्यते ।। विनीतमौरसं पुत्रं यौवराज्येऽभिषेचयेत् ।"