रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 156, कुल 735 में से
संदर्भ में पढ़ेंतृतीयः सर्गः ९७
किं तद्यश इत्याह— हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः । तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी नहि शब्द एष नः ॥ ४९ ॥
अन्वयः—यथा हरिः एकः (एव) पुरुषोत्तमः स्मृतः, (यथा च) त्र्यम्बकः महेश्वरः एव (स्मृतः), अपरः न, तथा मुनयः मां शतक्रतुं विदुः, नः एष शब्दः द्वितीयगामी न हि ।
हरिरिति । पुरुषेषूत्तम इति सप्तमीसमासः । 'न निर्धारणे' इति षष्ठीसमास-निषेधात् । कर्मधारये तु 'सन्महत्परमोत्कृष्टाः पूज्यमानैः' इत्युत्तमपुरुष इति स्यात् । यथा हरिर्विष्णुरेक एव पुरुषोत्तमः स्मृतः । यथा च त्र्यम्बकः शिव एक एव महेश्वरः स्मृतः । नापरोऽपरः पुमान्न । तथा मां मुनयः शतक्रतुं विदुर्विदन्ति । 'विदो लटो वा' इति झेरुषादेश । नोऽस्माकम् । हरिहरयोर्मम चेत्यर्थः । एष त्रितयोऽपि शब्दो द्वितीयगामी नहि । द्वितीयाप्रकरणे गम्यादीनामुपसङ्ख्यानात्समासः ।
भाषार्थ—जिस प्रकार भगवान् विष्णु ही एक पुरुषोत्तम कहे गये हैं शिव ही महेश्वर कहे गए हैं और दूसरे नहीं; उसी प्रकार मुनि लोग मुझे शतक्रतु जानते हैं। हम लोगों के ये शब्द दूसरे व्यक्ति को प्राप्तव्य नहीं हैं ॥ ४९ ॥
अतोऽयमश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयाऽपहारितः । अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य सन्ततेः ॥ ५० ॥
अन्वयः—अतः त्वदीयस्य पितुः अयम् अश्वः कपिलानुकारिणा मया अपहारितः । अत्र तव प्रयत्नेन अलम् । सगरस्य सन्ततेः पदव्यां पदं मा निधाः ।
अत इति । यतोऽहमेव शतक्रतुरतस्त्वदीयस्य पितुरयं शततमोऽश्वः कपिलानुकारिणा कपिलमुनितुल्येन मयाऽपहारितोऽपहृतः । अपहारित इति स्वार्थे णिच् । तवात्राश्वे प्रतत्नेनालम् । प्रयत्नो मा कारीत्यर्थः । निषेधस्य निषेधं प्रति करणत्वात् तृतीया । सगरस्य राज्ञः सन्ततेः सन्तानस्य पदव्यां पदं मा निधाः न निधेहि । निपूर्वाद्धातोर्लङ् । 'न माङ्योगे' इत्यडागमप्रतिषेधः । महदास्कन्दनं ते विनाशमूलं भवेदिति भावः ।
भाषार्थ—अतः कपिल मुनि का अनुकरण करनेवाले मैंने तुम्हारे पिता के घोड़े को चुरा लिया है। इस सम्बन्ध में तुम्हारा प्रयत्न निष्फल है। सगर के पुत्रों के मार्ग में पैर न रखो ॥ ५० ॥
ततः प्रहस्यापभयः पुरन्दरं पुनर्वभाषे तुरगस्य रक्षिता । गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥ ५१ ॥ ७ २० सम्पू०