भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 160, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 160

तृतीयः सर्गः १०१

भाषार्थं—इन्द्र अत्यन्त प्रयत्न से प्रयुक्त अस्त्रों की वर्षा से असह्य तेज के आधार उस रघु को शान्त करने में समर्थ नहीं हो सके, जिस प्रकार मेघ अपने से निकली हुई तडित रूप अग्नि को स्वयं शान्त करने में असमर्थ होता है ॥५८॥

ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम् ।
रघुः शशाङ्कार्द्धमुखेन पत्रिणा शरासनज्यामलुनाद्विडौजसः ॥ ५६ ॥

अन्वयः—ततः रघुः हरिचन्दनाङ्किते प्रकोष्ठे प्रमथ्यमानार्णवधीरनादिनीं विडोजसः, शरासनज्यां शशाङ्कार्धमुखेन पत्रिणा अलुनात् ।

तत इति । ततो रघुर्हरिचन्दनाङ्किते प्रकोष्ठे मणिबन्धे प्रमथ्यमानार्णवधीरनादिनीं प्रमथ्यमानार्णव इव धीरं गम्भीरं नदतीति तां तथोक्ताम् । वेवेष्टि व्याप्नोतीति विड् । व्यापकमोजो यस्य स तस्य विडौजस इन्द्रस्य । पृषोदरादित्वात्साधुः । शरासनज्यां धनुर्मोर्वीम् । शशाङ्कस्यार्द्धंः खण्ड इव मुखं फलं यस्य तेन पत्रिणाऽलुनादच्छिनत् ।

भाषार्थं—तब रघु ने हरिचन्दन से चिह्नित पहुँचे में, मथे जाते हुए समुद्र के समान गम्भीर ध्वनि वाली इन्द्र के धनुष की प्रत्यञ्चा ( डोरी ) को अर्द्ध चन्द्र तुल्य बाण से काट दिया ॥ ५९ ॥

स चापमुत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः ।
महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलमस्त्रमाददे ॥ ६० ॥

अन्वयः—विवृद्धमत्सरः स चापम् उत्सृज्य प्रबलस्य विद्विषः प्रणाशनाय महीध्रपक्षव्यपरोपणोचितम्, स्फुरत्प्रभामण्डलम् अस्त्रम् आददे ।

स इति । विवृद्धमत्सरः प्रवृद्धवैरः इन्द्रश्चापमुत्सृज्य प्रबलस्य विद्विषः शत्रोः प्रणाशनाय वधाय । महीं धारयन्तीति महीध्राः पर्वताः । मूलविभुजादित्वात्कः प्रत्ययः । तेषां पक्षव्यपरोपणे पक्षच्छेद उचितं स्फुरत्प्रभामण्डलमस्त्रं वज्रायुधमाददे जग्राह ।

भाषार्थं—धनुष की डोरी कट जाने से क्रुद्ध इन्द्र ने धनुष फेंककर प्रबल वैरी के वध के लिए पहाड़ों के पंख काटने में कुशल चमकता हुआ वज्र उठा लिया ।

रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः ।
निमेषमात्रादवधूय तद्व्यथां सहोत्थितः सैनिकहर्षनिःस्वनैः ॥ ६१ ॥

अन्वयः—रघुः तेन भृशं वक्षसि ताडितः ( सन् ) सैनिकाश्रुभिः सह भूमौ पपात, निमेषमात्रात् तद्व्यथाम् अवधूय सैनिकहर्षनिःस्वनै सह उत्थितः ।

रघुरिति । रघुस्तेन वज्रेण भृशमत्यर्थं वक्षसि ताडितो हतः सन् । सैनिका-