रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 172, कुल 735 में से
संदर्भ में पढ़ेंचतुर्थः सर्गः ११३
स्थम् । तत्र निषण्णा इक्षुच्छायानिषादिन्यः 'इक्षुच्छायानिषादिन्यः' इति स्त्रीलि- ङ्गपाठे इक्षोश्छायेति विग्रहः । अन्यथा बहुत्वे नपुंसकत्वप्रसङ्गात् । शालीन् गोपा- यन्ति रक्षन्तीति शालिगोप्यः सस्यपालिकाः स्त्रियः । 'कर्मण्यण्' 'टिड्ढाणञ्-' इत्यादिना ङीप् । गोप्तुः रक्षकस्य तस्य रघोः । गुणेभ्य उदयो यस्य तद् गुणोदर्कं गुणोत्पन्नमाकुमारं कुमारादारभ्य कथाऽऽरम्भो यस्य तत् । कुमारैरपि स्तूयमान- मित्यर्थः । यशो जगुर्गायन्ति स्म । अथवा कुमारस्य सतो रघोर्याः कथा इन्द्रवि- जयादयस्तत आरभ्याकुमारकथम् । तत्राप्यभिविधावव्ययीभावः । आकुमारकथमु- द्घातो यस्मिन्कर्मणि । गानक्रियाविशेषणमेतत् । 'स्यादन्यादानमुद्घात आरम्भः' इत्यमरः । 'आकुमारकथोद्भूतम्' इति पाठे कुमारस्य सतस्तस्य कथाभिश्चरितै- रुद्भूतं यद्यशस्तद्यश आरभ्य यशो जगुरिति व्याख्येयम् ।
भावार्थ— इक्षु छाया में बैठी हुई धान की रक्षिका स्त्रियां रक्षक रघु के से उत्पन्न आबालप्रसिद्ध यश को गाने लगीं ॥ २० ॥
प्रससादोदयादम्भः कुम्भयोनेर्महौजसः । रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः ॥ २१ ॥
अन्वयः— महौजसः कुम्भयोनेः उदयात् अम्भः प्रससाद ( महौजसः ) रघोः ( उदयात् ) द्विषताम् अभिभवाशङ्कि मनः चुक्षुभे ।
प्रससादेति । महौजसः कुम्भयोनेरगस्त्यस्य । 'अगस्त्यः कुम्भसंभवः' इत्यमरः । उदयादम्भः प्रससाद प्रसन्नं बभूव । महौजसो रघोरुदयाभिभवाशङ्कि द्विषतां मन- श्चुक्षुभे कालुष्यं प्राप । 'अगस्त्योदये जलानि प्रसीदन्ति' इत्यागमः ।
भाषार्थ— तेजस्वी अगस्त्य नक्षत्र के उदय से जल स्वच्छ हो गया और महा- पराक्रमी रघु के अभ्युदय से वैरियों का मन पराजय से आशङ्कित हो गया ॥ २१ ॥
मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः । लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम् ॥ २२ ॥
अन्वयः— मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः महोक्षाः तस्य लीलाखेलं विक्रमं अनुप्रापुः ।
मदोदग्रा इति । मदोदग्रा मदोद्धताः । ककुदेषामस्तीति ककुद्मन्तः, महाककुद इत्यर्थः । यवादित्वान्मकारस्य वत्वाभावः । सरितां कूलान्युद्रुजन्तीति कुलमुद्रुजाः । 'उदि कूले' इति खस्प्रत्ययः । 'अरुर्द्विषद्व' इत्यादिना मुमागमः । महान्त उक्षाणो महोक्षाः । 'अचतुर-' इत्यादिना निपातनादकारान्तः । लीलाखेलं विलास सुभगं तस्य रघोरुत्साहवतो वपुष्मतः परमऋकस्य विक्रमं शौर्यमनुप्रापुरनुप्रापु रनुचक्रुः ।
८ २० सम्पू०