रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 181, कुल 735 में से
संदर्भ में पढ़ें१२२ रघुवंशमहाकाव्ये
अन्वयः—सः गजदानसुगन्धिना सैन्यपरिभोगेन कावेरीं सरितां पत्युः शङ्कनीयाम् इव अकरोत् ।
स इति । सः रघुः गजानां मदेन दानेन सुगन्धिना सुरभिगन्धिना । 'गन्धस्येदुत्पूतिसुसुरभिभ्यः' इत्यनेनेकारादेशः समासान्तः । यद्यपि गन्धस्येत्वे तदेकान्तग्रहणं कर्तव्यमिति नैसर्गिकगन्धविवक्षायामेवेकारादेशः, तथाऽपि 'निरङ्कुशाः कवयः' तथा माघकाव्ये—‘ववुरयुमच्छदगुच्छसुगन्धयः सततमास्ततगानगिरोऽलिभिः'। (६।५०) नैषधे च—'अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा' (३।९४) इति । 'न कर्मधारयान्मत्वर्थीयः' इति निषेधादिनिप्रत्ययपक्षेऽपि जघन्य एव। 'सेनायां सेनायां समवेताः सैन्याः' । 'सेनायां समवेता ये सैनिकाश्च ते' इत्यमरः । सेनायां वा' इति ष्यप्रत्ययः । तेषां परिभोगेन कावेरीं नाम सरितं, सरितां पत्युः समुद्रस्य शङ्कनीयामविश्वसनीयामिवाकरोत् । संभोगलिङ्गदर्शनाद्भर्तुरविश्वासो भवतीति भावः ।
भाषार्थ—उस रघु ने गजमदगन्धित सैनिकों की विलासलीला से कावेरी को समुद्र के प्रति मानो अविश्वसी बना दिया ॥४५॥
बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः ।
मारीचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः ॥ ४६ ॥
अन्वयः—'विजिगीषोः गताध्वनः तस्य बलैः मारीचोद्भ्रान्तहारिताः मलयाद्रे उपत्यकाः अध्युषिताः ।
बलैरिति । विजिगीषोर्विजेतुमिच्छोर्गताध्वनस्तस्य रघोर्बलैः सैन्यैः । 'बलं शक्तिर्बलं सैन्यम्' इति यादवः । मारीचेषु मरीचवनेषूद्भ्रान्ताः परिभ्रान्ताः हारीता पक्षिविशेषा यासु ताः । 'तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः' इत्यमरः । मलयाद्रेरुपत्यका आसन्नभूमयः । 'उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका' इत्यमरः। 'उपाधिभ्यां' इत्यनेन त्यकन् अध्युषिताः उपत्यकासूतितमित्यर्थः । 'उपान्वध्याङ्कि'ति कर्मत्वम् ।
भाषार्थ—विजयेच्छु, कुछ मार्ग पार कर चुकीं राजा रघु की सेना ने मिर्चे के वनों में उड़नेवाली हारीत चिड़ियों वाले पर्वत की तराई में विश्राम किया ।
ससज्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः ।
तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ॥ ४७ ॥