रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 206, कुल 735 में से
संदर्भ में पढ़ेंगतः' इत्येवंरूपोऽयं परीवादस्य नवो नूतनः प्रथमोऽवतार आविर्भावो मे मा भून्माऽस्तु।
भाषार्थ—हे कौत्स ! 'सकलशास्त्रपारङ्गत गुरुदक्षिणाय चक, रघु के पास मनोरथ पूर्ण न होने पर दूसरे दाता के पास गये' यह निन्दा का नया अवतार न हो ॥ २४ ॥
स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे । द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम् ॥ २५ ॥
अन्वयः—सः त्वम् महिते प्रशस्ते मदीये अग्न्यगारे चतुर्थः अग्नि इव वसन् द्वित्राणि अहानि सोढुम् अर्हसि अहं तावत् त्वदर्थम् साधयितुम् यते ।
स इति। स त्वं महिने पूजिते प्रशस्ते प्रसिद्धे मदीयेऽग्न्यगारे त्रेताग्निशालायां चतुर्थोऽग्निरिव वसन्द्वित्राणि द्वे त्रीणि वाऽहानि दिनानि सोढुमर्हसि। हे अर्हन् ! मान्य ! त्वदर्थं तव प्रयोजनं साधयितुं यावद्यते ।
भाषार्थ—अतः मेरी परम पवित्र अग्निशाला में चतुर्थ अग्नि के समान दो या तीन दिन निवास करें, जब तक मैं आपकी कार्यसिद्धि के लिए प्रयत्न करूँ ॥ २५ ॥
तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्सङ्गरमग्रजन्मा । गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात् ॥ २६ ॥
अन्वयः—अग्रजन्मा प्रतीतः सन् तस्य अवितथम् सङ्गरम् इति प्रत्यग्रहीत्, तथा रघु अपि गाम् आत्तसाराम् अवेक्ष्य कुबेरात् अर्थम् निष्क्रष्टुम् चकमे ।
तथेतीति । अग्रजन्मा ब्राह्मणः प्रतीतः प्रीतः संस्तस्य रघोरवितथममोघं सङ्गरं प्रतिज्ञाम् । 'तां गिरम्' इति केचित्पठन्ति । तथेति प्रत्यग्रहीत् । रघुरपि गां भूमिमात्तसारां गृहीतधनामवेक्ष्य कुवेरार्थं निष्क्रष्टुमाहर्तुं चकम इयेष ।
भाषार्थ—ब्राह्मण कौत्स ने प्रसन्न हो रघु की अव्यर्थ प्रतिज्ञा को स्वीकार किया। इधर महाराज रघु ने भी पृथ्वी को सारहीन समझ कुबेर से धन लेने की इच्छा की । २६ ॥
वसिष्ठमन्त्रोक्षणजातप्रभावादुदन्वदाकाशमहीधरेषु । मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने नहि तद्रथस्य ॥ २७ ॥
अन्वयः—वसिष्ठमन्त्रोक्षणजात् प्रभावात् उदन्वदाकाशमहीधरेषु मरुत्सखस्य बलाहकस्य इव तद्रथस्य गतिः न हि विजघ्ने ।