भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 208, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 208

पंचमः सर्गः १४९

अन्वयः—भूपतिः अभियास्यमानात् कुबेरात् लब्धम् वज्रभिन्नम् सुमेरोः पा- दम् इव स्थितम् तम् भासुरहेमराशिम् समस्तम् एव कौत्साय दिदेश ।

तमिति । भूपतिः रघुः । अभियास्यमानादभिगमिष्यमाणात्कुबेराल्लब्धम् । कुलिशेन सुमेरोः पादं प्रत्यन्तपर्वतमिव स्थितम् । 'शृङ्गम्' इति क्वचित्पाठः । तं भासुरं भास्वरम् । हेमराशि समस्तं कृत्स्नमेव कौत्साय दिदेश ददौ ।

भाषार्थ — युद्ध के लिए चढ़ाई किए जाने वाले कुबेर से वृष्टि द्वारा प्राप्त चमकती हुई सुवर्ण राशि रघु ने कौत्स ऋषि को दे दी। जो कि वज्र से काट कर गिराये हुए सुमेरु के टुकड़े के समान दिखती थी ॥ ३० ॥

जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ ।
गुरुप्रदेयाधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ॥ ३१ ॥

अन्वयः—तौ द्वौ अपि साकेतनिवासिनः जनस्य अभिनन्द्यसत्त्वौ अभूताम् । गुरुप्रदेयाधिकनिःस्पृहः अर्थी, अर्थिकामात् अधिकप्रदः नृपः च ।

जनस्येति । तावर्थिदातारौ द्वावपि साकेतनिवासिनोऽयोध्यावासिनः । जनस्याभिनन्द्यसत्त्वं स्तुत्यव्यवसायावभूताम् । कौ द्वौ ? गुरुप्रदेयाधिकेऽतिरिक्तद्रव्ये निःस्पृहोऽर्थी । अर्थिकामादर्थिमनोरथादधिकं प्रददातीति तथोक्तः । नृपश्च ।

भाषार्थ—उस समय अयोध्यानिवासी याचक कौत्स और दाता रघु दोनों की सराहना करने लगे । इधर तो कौत्स गुरुदक्षिणा से अधिक एक कौड़ी भी लेना नहीं चाहते थे और उधर रघु वह समस्त धन कौत्स को देने के लिए इच्छुक थे ॥ ३१ ॥

अथोष्ट्रवामीशतवाहितार्थं प्रजेश्वरं प्रीतमना महर्षिः ।
स्पृशन्करेणानतपूर्वकायं सम्प्रस्थितो वाचमुवाच कौत्सः ॥ ३२ ॥

अन्वयः—अथ प्रीतमनाः महर्षिः कौत्सः सम्प्रस्थितः सन् उष्ट्रवामीशतवाहितार्थम् आनतपूर्वकायम् प्रजेश्वरम् करेण स्पृशन् वाचम् उवाच ।

अथेति । अथ प्रीतमना महर्षिः कौत्सः सम्प्रस्थितः सम्प्रस्थास्यमानः सन् । उष्ट्राणां क्रमेलकानां वामीनां वडवानां च शतैर्वाहितार्थं प्रापितधनमानतपूर्वकायम्। विनयनम्रं प्रजेश्वरं करेण स्पृशन्वाचमुवाच ।

भाषार्थ—इसके बाद परम प्रसन्न कौत्स ऋषि प्रस्थान करते हुए सैकड़ों ऊँटों खच्चरों से धन को पहुँचा देने का प्रयत्न करने वाले, मस्तक झुकाये हुए रघु पर हाथ फेरते हुए यों बोले ॥ ३२ ॥

किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानाम् ।
अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ॥ ३३ ॥