रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 214, कुल 735 में से
संदर्भ में पढ़ेंपञ्चमः सर्गः १५५
तस्यैकनागस्य कपोलभित्त्योर्जलावगाहक्षणमात्रशान्ता ।
वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्द्दिनश्रीः ॥ ४७ ॥
अन्वयः—तस्य एकनागस्य कपोलभित्त्योः जलावगाहक्षणमात्रशान्ता मददुर्द्दिन-श्री वन्येतरानेकपदर्शनेन पुनः दिदीपे ।
तस्येति । तस्यैकनागस्यैकाकिनो गजस्य कपोलभित्त्योर्जलावगाहेन क्षणमात्रं शान्ता निवृत्ता मददुर्द्दिनश्रीर्मदवर्षलक्ष्मीर्वन्येतरेषां ग्राम्याणामनेकपानां द्विपानां दर्शनेन पुनर्दिदीपे ववृधे ।
भाषार्थ—उस गज श्रेष्ठ के गण्डस्थलों से झरने वाली मदधारा नर्मदा के जल में डुबकी लगाने से क्षणमात्र के लिए बन्द हो गई थी, वही अज की सेना के हाथियों के देखने से पुनः बरसने लगी ॥ ४७ ॥
ससप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् ।
विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः ॥ ४८ ॥
अन्वयः—ससप्तच्छदक्षीरकटुप्रवाहम् (अत एव) असह्यम् तदीयम् मदम् आघ्राय सेनागजेन्द्राः विलङ्घिताधोरणतीव्रयत्नाः सन्तः विमुखाः वभूवुः ।
ससप्तच्छदेति । सप्तच्छदस्य वृक्षविशेषस्य क्षीरवत्कटुः सुरभिः प्रवाहः प्रसारो यस्य तदीयं मदमाघ्राय सेनागजेन्द्राः। विलङ्घितस्तिरस्कृत आधोरणानां हस्तिपकानां तीव्रो महान्यत्नो यैस्ते तथोक्ताः सन्तः । विमुखाः पराङ्मुखाः बभूवुः ।
भाषार्थ—छितवन के दूध के समान गन्ध वाले असह्य उस जंगली हाथी के मद को सूँघकर अज की सेना के बड़े २ हाथी महावतों के अंकुश की मार की उपेक्षा कर वापस भागने लगे ॥ ४८ ॥
स छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥ ४६ ॥
अन्वयः—छिन्नबन्धद्रुतयुग्यशून्यम् भग्नाक्षपर्यस्तरथम् रामापरित्राणविहस्तयोधम् सेनानिवेशम् क्षणेन तुमुलम् चकार ।
सेति । स गजः । छिन्ना बन्धा यैस्ते छिन्नबन्धा द्रुताः पलायिताः, युगं वहन्तीति युग्या वाहा यस्मिन् सः, स चासौ शून्यश्च तम् । भग्ना अक्षा रथावयवदारुविशेषाः । येषान्ते भग्नाक्षा अत एव पर्यस्ताः पतिता रथा यस्मिंस्तम् । रामाणां परित्राणे संरक्षणे विहस्ता व्याकुलाः योधाः यस्मिंस्तं सेनानिवेशं शिविरं क्षणेन तुमुलं चकार ।
भाषार्थ-अज की सेना का सारा शिविर उस जंगली हाथी के आते ही व्याकुल