भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 219, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 219

१६० रघुवंशमहाकाव्ये

**अन्वयः—**नगरोपकण्ठे तस्थिवांसम् तम् तदागमारूढगुरुप्रहर्षः क्रथकैशिकेन्द्रः प्रवृद्धोर्मिः ऊर्मिमाली चन्द्रम् इव प्रत्युज्जगाम ।

तमिति । नगरस्योपकण्ठे समीपे तस्थिवांसं स्थितं तमजं तस्याजस्यागमना-गमनेनारूढ उत्पन्नो गुरुः प्रहर्षो यस्य स क्रथकैशिकेन्द्रो विदर्भराजः । प्रवृद्धोर्मि-रुर्मिमाली समुद्रश्चन्द्रमिव प्रत्युज्जगाम ।

**भाषार्थ—**अपने नगर के बाहर उस युवराज अज के आगमन से अत्यन्त प्रसन्न विदर्भ देश के राजा भोज अज का स्वागत करने के लिए ऐसे गये जैसे लहरीसंयुक्त समुद्र चन्द्रोदय से प्रसन्न होकर उनसे मिलने लिए ऊपर उठता है ।

प्रवेश्य चैनं पुरमग्रयायी नीचैस्तयोपाचरदर्पितश्रीः ।
मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् ॥ ६२ ॥

**अन्वयः—**एनम् अग्रयायी नीचैः पुरम् प्रवेश्य प्रीत्या अर्पितश्रीः तथा उपाचरत् यथा तत्र समेतः जनः वैदर्भम् आगन्तुम् अजम् गृहेशम् मेने ।

प्रवेश्येति । एनमजमग्रयायी । सेवाधर्मेण पुरो गच्छन्नित्यर्थः । नीचैर्नम्रः पुरं प्रवेश्य प्रवेशं कारयित्वा प्रीत्याऽर्पितश्रीस्तथा तेन प्रकारेणोपाचरदुपचरितवान् । यथा येन प्रकारेण तत्र पुरे समेतो मिलितो जनो वैदर्भं भोजमागन्तुं प्राघूर्णिकं मेने । अजं गृहेशं गृहपतिं मेने ।

**भाषार्थ—**सेवा से अज के आगे चलते हुए विनम्र राजा भोज अज को नगर में ले जाकर प्रेमपूर्वक अपनी सारी सम्पत्ति से ऐसा व्यवहार किया कि वहाँ आये हुए जन समूह ने यही समझा कि युवराज अज ही गृहस्वामी हैं और विदर्भ नरेश राजा भोज अतिथि हैं ॥ ६२ ॥

तस्याधिकारपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भाम् ।
रम्यां रघुपतिनिधिः स नवोपकार्याम्बाल्यात्परामिव दशां मदनोऽध्युवास ॥

**अन्वयः—**रघुपतिनिधिः सः प्रणतैः तस्य अधिकारपुरुषैः प्रदिष्टां प्राग्द्वारवेदि-विनिवेशितपूर्णकुम्भाम् रम्याम् नवोपकार्याम् बाल्यात् परां दशाम् इव अध्युवास ।

तस्येति । रघुपतिनिधी रघुकल्पः । रघुतुल्य इत्यर्थः । सोऽजः प्रणतैर्नमस्कृतवद्भिः । तस्य भोजस्याधिकारो नियोगस्तस्य पुरुषैः । प्रदिष्टां प्राग्द्वारस्य वेद्यां विनिवेशितः पूर्णकुम्भो यस्यास्ताम् । रम्यां रमणीयां नवोपकार्यां नूतनं राजभवनम् । मदनो बाल्यात्परां शैशवादनन्तरां दशामिव । यौवनमिवेत्यर्थः । अध्युवासाधिष्ठितवान् । तत्रोषितवानित्यर्थः ।