भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 270, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 270

सप्तमः सर्गः २११

आप इन्दुमती से विवाह करने की प्रार्थना की थी पर इसने स्वयम्बर करके ही अपना विवाह करना उचित समझा । अन्यथा इन्दुमती विष्णु को लक्ष्मी के समान अपने अनुरूप पति अज को कैसे पा सकती ? ॥ १३ ॥

परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् । अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत् ॥ १४ ॥

अन्वयः—(प्रजापतिः) स्पृहणीयशोभम् इदं द्वन्द्वं चेत् परस्परेण न अयोज- यिष्यत् (तर्हि) अस्मिन् द्वये प्रजानां पत्युः रूपविधानयत्नः वितथः अभविष्यत् ।

परस्परेणेति । स्पृहणीयशोभं सर्वाशास्यसौन्दर्यमिदं मिथुनम् । "द्वन्द्वं रहस्य- मर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु" इत्यनेन निपातः । परस्परेण नायोजयिष्यच्चेन्न योजयेद्यदि तर्हि प्रजानां पत्युर्विधातुरस्मिन्द्वये द्वन्द्वे रूपविधान- यत्नः सौन्दर्यनिर्माणप्रयासो वितथो विफलॊऽभविष्यत् । एतादृशानुरूपस्त्रीपुंसान्त- राभावादिति भावः । "लिङ्निमित्ते लृङ् क्रियातिपत्तौ" लृङ् । 'कुतश्चित्कारण- वैगुण्यात्क्रियाया अनभिनिर्वृत्तिः क्रियातिपत्तिः' इति वृत्तिकारः ।

भाषार्थ—यदि ब्रह्मा अत्यन्त सुन्दर इन दोनों की जोड़ी न मिलाते तो इन दोनों को इतना सुन्दर बनाने का उनका प्रयास व्यर्थ ही हो जाता ॥ १४ ॥

रतिस्मरौ नूनमिमावभूतां राज्ञां सहस्रेषु तथाहि बाला । गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसंगतिज्ञम् ॥ १५ ॥

अन्वयः—इमौ नूनं रतिस्मरौ अभूताम् तथाहि इयं बाला राज्ञां सहस्रेषु आत्मप्रतिरूपम् एव गता हि मनः जन्मान्तरसंगतिज्ञम् (भवति) ।

रतीति । रतिस्मरौ नित्यसहचरावित्यभिप्रायः । नूनं तावेवेयं चेमौ दम्पती अभूताम् एतद्रूपेणोत्पन्नौ । कुतः तथाहि इयं बाला राज्ञां सहस्रेषु राजसहस्रमध्ये सत्यपि व्यत्यासकारण इति भावः । आत्मप्रतिरूपं स्वतुल्यमेव । 'तुल्यसंकाश- नीकाशप्रकाशप्रतिरूपकाः' इति दण्डी । गता प्राप्ता । तदपि कथं जातमत्त आह— हि यस्मान्मनो जन्मान्तरसंगतिज्ञं भवति । तदेवेदमिति प्रत्यभिज्ञाभावेऽपि वासना- विशेषवशादनुभूतार्थेषु मनः प्रवृत्तिरस्तीत्युक्तम् । जन्मान्तरसाहचर्यमेवात्र प्रवर्तकमिति भावः ।

भाषार्थ—ये दोनों पूर्व जन्म में रति और कामदेव ही रहे होंगे । इसीलिए तो हजारों राजाओं के बीच में इन्दुमती ने अज को ही वरण किया है, यह बात ठीक ही है कि मन पूर्व जन्म के सम्बन्ध को भलीभांति पहचान लेता है ॥ १५ ॥

इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन्कथाः श्रोत्रसुखाः कुमारः । उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद ॥ १६ ॥

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या) · पृष्ठ 270, कुल 735 में से · BharatKosha