भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 287, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 287

२२८ रघुवंशमहाकाव्ये

अन्वयः—महौजाः अजः परेण बले भग्ने अपि अरिसैन्यं प्रति एव ययौ । समीरगेन धूमः निवर्त्येत वह्निः तु यतः कक्षः भवति ततः एव प्रवर्तते ।

परेणेति । बले स्वसैन्ये परेण परबलेन भग्नेऽपि महौजा महाबलोऽजोऽरिसैन्यं प्रत्येव ययौ । तथाहि समीरगेन वायुना धूमो निवर्त्येत कक्षादपसार्येत । वर्त्ततेर्ण्यन्तात्कर्मणि संभावनायां लिङ् । वह्निस्तु यतो यत्र कक्षस्तृणम् । 'कक्षौ तु तृणवीरूधौ' इत्यमरः । तत एव तत्रैव प्रवर्तत इति शेषः । सार्वविभक्तिकस्तसिः ।

भाषार्थ—जिस प्रकार हवा से धूंवां के इधर-उधर हो जाने पर भी आग घासफूस की तरफ ही जाती है उसी प्रकार शत्रुओं द्वारा अपनी सेना इधर-उधर हो जाने पर भी महापराक्रमी अज शत्रु की सेना में बढ़ते ही चले गये ॥ ५५ ॥

रथी निषङ्गी कवची धनुष्मान्दृप्तः स राजन्यकमेकवीरः ।
निवारयामास महावराहः कल्पक्षयोद्वृत्तमिवार्णवाम्भः ॥ ५६ ॥

अन्वयः—रथी निषङ्गी धनुष्मान् दृप्तः एकवीरः सः महावराहः कल्पक्षयोद्वृत्तम् अर्णवाम्भः इव राजन्यकं निवारयामास ।

रथीति । रथी रथारूढो निषङ्गी तूणीरवान् । 'तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः' इत्यमरः । कवची वर्मधरो धनुष्मान्धनुर्धरो दृप्तो रणदृप्त एकवीरोऽसहायशूरः सोऽजो राजन्यकं राजसमूहम् । "गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्" इत्यनेन वुञ्प्रत्ययः । महावराहो वराहावतारो विष्णुः कल्पक्षये कल्पान्तकाले उद्वृत्तमुद्वेलमर्णवाम्भ इव निवारयामास ।

भाषार्थ—जिस प्रकार प्रलय के समय वाराह रूपधारी भगवान् विष्णु समुद्र के बढ़े हुए जल को चीरते हुए आगे चलते गये उसी प्रकार रथ पर बैठे हुए कवच तथा तरकस को धारण किये हुए वे अद्वितीय वीर अज अकेले ही शत्रुओं की सेना को चीरते चले जा रहे थे ॥ ५६ ॥

स दक्षिणं तूणमुखेन वामं व्यापारयन्हस्तमलक्ष्यताजौ ।
आकर्णकृष्टा सकृदस्य योद्धुर्मोर्वीव बाणान्सुषुवे रिपुघ्नान् ॥ ५७ ॥

अन्वयः—सः आजौ दक्षिणं हस्तं तूणमुखेन वामं व्यापारयन् सन् अलक्षत योद्धुं अस्य सकृत् आकर्णकृष्टा मौर्वी रिपुघ्नान् बाणान् सुषुवे इव ।

स इति । सोऽजः आजौ संग्रामे दक्षिणं हस्तं तूणमुखेन निषङ्गविवरेण वाममतिसुन्दरम् 'वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे' इति विश्वः। व्यापारयन्नलक्षयत । शरसंधानादयस्तु दुर्लक्ष्या इत्यर्थः । सकृदाकर्णकृष्टा योद्धुरस्याजस्य मौर्वी ज्या