भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 293, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 293
२३४रघुवंशमहाकाव्ये

अत्यन्त प्रसन्न हुई इन्दुमती लज्जा के कारण स्वयं तो कुछ नहीं कह सकी किन्तु सखियों के वचनों द्वारा अज का अभिनन्दन किया ॥ ६९ ॥

इति शिरसि स वामं पादमाधाय राज्ञामुद्वहदनवद्यां तामवद्यादपेतः ।
रथतुरगरजोभिस्तस्य रूक्षालकाग्रा समरविजयलक्ष्मीः सैव मूर्ता बभूव ॥ ७० ॥

अन्वयः—अवद्यात् अपेतः सः इति राज्ञां शिरसि वामं पादम् आधाय अनवद्यां तां उदवहत् रथतुरगरजोभिः रूक्षालकाग्रा सा एव तस्य मूर्त्ता समरविजयलक्ष्मीः बभूव ।

इतीति । नोद्यते नोच्यत इत्यवद्यं गर्ह्यम् । “अवद्यपण्यवय्यगर्ह्यपणितव्यानिरोधेषु” इत्यनेन निपातः । “कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः” इत्यमरः । तस्मादपेतः निर्दोष इत्यर्थः सोऽज इति राज्ञां शिरसि वामं पादमाधायानवद्यामदोषां तामिन्दुमतीमुद्वहदुपानयत् । आत्मसाच्चकारेत्यर्थः । अयमर्थः ‘समुद्वहन्तं पथि भोजकन्याम्’ इत्यत्र न श्लिष्टः । तस्याजस्य रथतुरगाणां रजोभी रूक्षाणि परुषाण्यलकाग्राणि यस्याः सा सेन्दुमत्येव मूर्ता मूर्तिमती समरविजयलक्ष्मीर्बभूव । एतल्लाभादन्यः को विजयलक्ष्मीलाभ इत्यर्थः ।

भाषार्थ—इस प्रकार निर्दोष वे अज उन राजाओं के शिरों पर बांया पैर रख कर सर्वाङ्ग सुन्दरी उस इन्दुमती को लेकर चले । रथ के घोड़ों की टापों से उड़ी हुई धूलि से इन्दुमती के केश भर गये थे उस समय वह साक्षात् विजय लक्ष्मी जैसी जान पड़ती थी ॥ ७० ॥

प्रथमपरिगतार्थस्तं रघुः सन्निवृत्तं
विजयिनमभिनन्द्य श्लाघ्यजायासमेतम् ।
तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभू-
न्नहि सति कुलधुर्ये सूर्यवंशा गृहाय ॥ ७१ ॥

अन्वयः—प्रथमपरिगतार्थः रघुः विजयिनं श्लाघ्यजायासमेतं सन्निवृत्तं तम् अभिनन्द्य, तदुपहितकुटुम्बः सन् शान्तिमार्गोत्सुकः अभूत् । हि कुलधुर्ये सति सूर्यवंश्याः गृहाय न भवन्ति ।

प्रथमेति । प्रथममजागमनात्प्रागेव परिगतो ज्ञातोऽर्थो विवाहविजयरूपो येन स प्रथमपरिगतार्थो रघुर्विजयिनं विजययुक्तं श्लाघ्यजायासमेतं सन्निवृत्तं प्रत्यागतं तमजमभिनन्द्य तस्मिन्नज उपहितकुटुम्बः सन् । ‘सुतविन्यस्तपत्नीकः’ इति याज्ञवल्क्य-

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या) · पृष्ठ 293, कुल 735 में से · BharatKosha