रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 295, कुल 735 में से
संदर्भ में पढ़ें| २३६ | रघुवंशमहाकाव्ये |
|---|
**भाषार्थ—**इसके बाद राजा रघु ने सुन्दर विवाह के मङ्गल सूत्र को पहने हुए अज के हाथ में दूसरी इन्दुमती के समान सारी पृथिवी को सौंप दिया अर्थात् उनका राज्याभिषेक कर दिया ॥ १ ॥
दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् ।
तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ॥ २ ॥
**अन्वयः—**नृपसूनवः यत् दुरितैः अपि आत्मसात् कर्तुम् प्रयतन्ते हि उपस्थितम् तत् अजः पितुः आज्ञा इति अग्रहीत् भोगतृष्णया न ( अग्रहीत् ) ।
दुरितैरिति । नृपसूनवो राजपुत्रा यद्राज्यं दुरितैरपि विषप्रयोगादिनिषिद्धोपायैरप्यात्मसात्स्वाधीनम् । "तदधीनवचने" इति सातिप्रत्ययः । कर्तुं प्रयतन्ते हि प्रवर्तंत एवेत्यर्थः । तथाहि "राजपुत्रा महोद्वृत्ता गजा इव निरङ्कुशाः । भ्रातरं पितरं वापि निघ्नन्त्येवाभिमानिनः ॥" हि शब्दोऽवधारणे । 'हि हेताववधारणे' इत्यमरः । उपस्थितं स्वतः प्राप्तं तद्राज्यमजः पितुराज्ञेति हेतोरग्रहीत्स्वीचकार । भोगतृष्णया तु नाग्रहीत् ॥ २ ॥
**भाषार्थ—**जिस राज्य को पाने के लिए राजकुमार लोग विष प्रयोग आदि अनेक प्रकार के उपाय किया करते हैं उसी राज्य को अज ने केवल अपने पिता की आज्ञा मानकर ही स्वीकार किया, भोगविलास की इच्छा से नहीं ॥ २ ॥
अनुभूय वसिष्ठसम्भृतैः सलिलैस्तेन सहाभिषेचनम् ।
विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव ॥ ३ ॥
**अन्वयः—**मेदिनी वसिष्ठसम्भृतैः सलिलैः तेन सह अभिषेचनम् अनुभूय विशदोच्छ्वसितेन कृतार्थताम् कथयामास इव ।
अनुभूयेति । मेदिनी भूमिः महिषी च ध्वन्यते । वसिष्ठेन सम्भृतैः सलिलैस्तेनाजेन सहाभिषेचनमनुभूय विशदोच्छ्वसितेन स्फुटमुद्गृहणेन आनन्दनिर्मलोच्छ्वसितेन चेति ध्वन्यते । कृतार्थतां गुणवद्भर्तृलाभकृतं साफल्यं कथयामासेव । न चैतावता पूर्वेषामपकर्षः प्रशंसापरत्वात् । 'सर्वत्र जयमन्विच्छेदपुत्रादिच्छेत्पराजयम्' इत्यङ्गीकृतत्वाच्च ।
**भाषार्थ—**जिस समय अज का राज्याभिषेक हुआ उस समय महर्षि वसिष्ठ ने वैतानिक मन्त्रों से अभिमन्त्रित करके जल को अज के ऊपर छोड़ा उसका कुछ अंश पृथ्वी पर गिरा जिसके कारण पृथ्वी से भाप निकलने लगी उससे