भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 308, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 308

अष्टमः सर्गः २४६

अन्वयः—श्रुतयागप्रसवैः ऋषिदेवगणस्वधाभुजाम् अनृणत्वम् उपेयिवान् सः पार्थिवः परिधेः मुक्तः उष्णदीधितिः इव बभौ ।

ऋषीति । श्रुतयागप्रसवैरध्ययनयज्ञसन्तानैः करणैः यथासंख्यमृषीणां देवगणानामिन्द्रादीनां स्वधाभुजां पितॄणामनृणत्वमृणविमुक्तत्वमुपेयिवान्प्राप्तवान् । 'ऋणं देवस्य यज्ञेन पितॄणां दानकर्मणा । संतत्या पितृलोकानां धारयित्वा परिव्रजेत् ।।' 'एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा' इति श्रुतेः । स पार्थिवोऽज परिधेः परिवेशात् । 'परिवेशस्तु परिधिः' इत्यमरः । मुक्तो निर्गतः कर्मकर्ता उष्णदीधितिः सूर्य इव बभौ दिदीपे । इत्युपमा ।

भाषार्थ—इस प्रकार वेदादिशास्त्रों का अध्ययन करके ऋषिऋण से यज्ञ करके देवऋण से और पुत्र उत्पन्न करके पितृऋण से मुक्त होकर वे राजा अज परिधि से मुक्त सूर्य के समान सुशोभित हुए ॥ ३० ॥

बलमार्तभयोपशान्तये विदुषां सत्कृतये बहुश्रुतम् । वसु तस्य विभोर्न केवलं गुणवत्ताऽपि परप्रयोजना ॥ ३१ ॥

अन्वयः—तस्य विभोः बलम् आर्तभयोपशान्तये श्रुतं विदुषां सत्कृतये अभूत् ( अतः ) केवलं वसु न किन्तु गुणवत्ता अपि परप्रयोजना अभूत् ।

बलमिति । तस्य विभोरजस्य केवलं वसु धनमेव परप्रयोजनं परोपकारकं नाभूत् । किन्तु गुणवत्तापि गुणित्वमपि परप्रयोजना परेषामन्येषां प्रयोजनं यस्यां सा । विधेयांशत्वेन प्राधान्याद्गुणवत्तायाविशेषणं वस्त्वित्यत्र तूहनीयम् । तथाहि बलं पौरुषमार्तानामापन्नानां भयस्योपशान्तये निषेधाय न तु स्वार्थं परपीडनाय वा । बहु भूरि श्रुतं विद्या विदुषां सत्कृतये सत्काराय न तूत्सेकाय बभूव । तस्य धनं परोपयोगीति किं वक्तव्यम् । बहुश्रुतादयोऽपि गुणाः परोपयोगिन इत्यर्थः ।

भाषार्थ—राजा अज का बल दुखियों के भय दूर करने के लिए और शास्त्राध्ययन विद्वानों के सत्कार के लिए हुआ । इस प्रकार उस रज का केवल धन ही परोपकार के लिए नहीं था किन्तु उसके गुण भी परोपकार के लिए ही थे ।

स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः । नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ॥ ३२ ॥

अन्वयः—अवेक्षितप्रजः सुप्रजा सः कदाचित् देव्या सह नगरोपवने नन्दने शचीसखः मरुतां पालयिता इव विजहार ।

स इति । अवेक्षितप्रजोऽकुतोभयत्वेनानुसंहितप्रजः । 'नित्यमसिच्प्रजामेधयोः' इत्यसिच्प्रत्ययः । न केवलं स्त्रीण इति भावः । शोभना प्रजा यस्यासौ सुप्रजाः