रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 308, कुल 735 में से
संदर्भ में पढ़ेंअष्टमः सर्गः २४६
अन्वयः—श्रुतयागप्रसवैः ऋषिदेवगणस्वधाभुजाम् अनृणत्वम् उपेयिवान् सः पार्थिवः परिधेः मुक्तः उष्णदीधितिः इव बभौ ।
ऋषीति । श्रुतयागप्रसवैरध्ययनयज्ञसन्तानैः करणैः यथासंख्यमृषीणां देवगणानामिन्द्रादीनां स्वधाभुजां पितॄणामनृणत्वमृणविमुक्तत्वमुपेयिवान्प्राप्तवान् । 'ऋणं देवस्य यज्ञेन पितॄणां दानकर्मणा । संतत्या पितृलोकानां धारयित्वा परिव्रजेत् ।।' 'एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा' इति श्रुतेः । स पार्थिवोऽज परिधेः परिवेशात् । 'परिवेशस्तु परिधिः' इत्यमरः । मुक्तो निर्गतः कर्मकर्ता उष्णदीधितिः सूर्य इव बभौ दिदीपे । इत्युपमा ।
भाषार्थ—इस प्रकार वेदादिशास्त्रों का अध्ययन करके ऋषिऋण से यज्ञ करके देवऋण से और पुत्र उत्पन्न करके पितृऋण से मुक्त होकर वे राजा अज परिधि से मुक्त सूर्य के समान सुशोभित हुए ॥ ३० ॥
बलमार्तभयोपशान्तये विदुषां सत्कृतये बहुश्रुतम् । वसु तस्य विभोर्न केवलं गुणवत्ताऽपि परप्रयोजना ॥ ३१ ॥
अन्वयः—तस्य विभोः बलम् आर्तभयोपशान्तये श्रुतं विदुषां सत्कृतये अभूत् ( अतः ) केवलं वसु न किन्तु गुणवत्ता अपि परप्रयोजना अभूत् ।
बलमिति । तस्य विभोरजस्य केवलं वसु धनमेव परप्रयोजनं परोपकारकं नाभूत् । किन्तु गुणवत्तापि गुणित्वमपि परप्रयोजना परेषामन्येषां प्रयोजनं यस्यां सा । विधेयांशत्वेन प्राधान्याद्गुणवत्तायाविशेषणं वस्त्वित्यत्र तूहनीयम् । तथाहि बलं पौरुषमार्तानामापन्नानां भयस्योपशान्तये निषेधाय न तु स्वार्थं परपीडनाय वा । बहु भूरि श्रुतं विद्या विदुषां सत्कृतये सत्काराय न तूत्सेकाय बभूव । तस्य धनं परोपयोगीति किं वक्तव्यम् । बहुश्रुतादयोऽपि गुणाः परोपयोगिन इत्यर्थः ।
भाषार्थ—राजा अज का बल दुखियों के भय दूर करने के लिए और शास्त्राध्ययन विद्वानों के सत्कार के लिए हुआ । इस प्रकार उस रज का केवल धन ही परोपकार के लिए नहीं था किन्तु उसके गुण भी परोपकार के लिए ही थे ।
स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः । नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ॥ ३२ ॥
अन्वयः—अवेक्षितप्रजः सुप्रजा सः कदाचित् देव्या सह नगरोपवने नन्दने शचीसखः मरुतां पालयिता इव विजहार ।
स इति । अवेक्षितप्रजोऽकुतोभयत्वेनानुसंहितप्रजः । 'नित्यमसिच्प्रजामेधयोः' इत्यसिच्प्रत्ययः । न केवलं स्त्रीण इति भावः । शोभना प्रजा यस्यासौ सुप्रजाः