रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 321, कुल 735 में से
संदर्भ में पढ़ें२६२ रघुवंशमहाकाव्ये
स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्द्यदुर्लभम् ।
अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि ! शोच्यसे ॥ ६३ ॥
**अन्वयः—**हे सुगात्रि ! अन्यदुर्लभं सशब्दनूपुरं चरणानुग्रहं स्मरता इव कुसुमाश्रुवर्षिणा अमुना अशोकेन त्वम् शोच्यसे ।
स्मरतेति । अन्यदुर्लभम् किन्तु स्मर्तव्यमेवेत्यर्थः । सशब्दं ध्वनियुक्तं नूपुरं मञ्जीरं यस्य तं चरणेनानुग्रहं पादेन ताडनरूपं स्मरतेव चिन्तयतेव कुसुमान्येवाश्रूणि तद्वर्षिणाऽमुना पुरोवर्तिनाऽशोकेन हे सुगात्रि ! “अङ्गगात्रकण्ठेभ्यो वक्तव्यम्” इति ङीप् । त्वं शोच्यसे ।
**भावार्थ—**हे शोभनाङ्गी प्रिये ! तुम्हारे झंकार करते हुए नूपुर वाले चरणों की ठोकर किसी को नहीं मिलती किन्तु तुमने बड़ी कृपा करके इस अशोक को ठोकर लगा दी थी । अब उन तुम्हारे चरणों की कृपा का स्मरण करके यह अशोक वृक्ष पुष्प रूपी आंसू बरसाते हुए तुम्हारे लिए रो रहा है ॥ ६३ ॥
तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया ।
असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि सुप्यते ॥ ६४ ॥
**अन्वयः—**हे किन्नरकण्ठि ! तव निःश्वासंतानुकारिभिः बकुलैः मया समं अर्धचितां विलासमेखलाम् असमाप्य ( त्वया ) किमिदं सुप्यते ।
तवेति । तव निश्वसितानुकारिभिर्बकुलकुसुमैर्मया समं सार्धमर्धचितामर्धं यया तथा रचितां विलासमेखलामसमाप्यापूरयित्वा किन्नरस्य देवयोनिविशेषस्य कण्ठ इव कण्ठो यस्यास्तत्संबुद्धिर्हे किन्नरकण्ठि ! “अङ्गगात्रकण्ठेभ्यो वक्तव्यम्” इति ङीप् । किमिदं सुप्यते निद्रा क्रियते । “वचिख्वपियजादीनां किति” इत्यनेन सम्प्रसारणम् । अनुचितमिदं स्वपनमित्यर्थः ।
**भावार्थ—**हे किन्नरों के समान मधुर कण्ठवाली प्रिये ! अपने श्वास के समान सुगन्धित मौलेसरी के पुष्पों की जो सुन्दर करधनी तुम मेरे साथ गूँथ रही थीं उसे पूरा किये बिना क्यों सो रही हो ॥ ६४ ॥
समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः ।
अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ॥ ६५ ॥
**अन्वयः—**सखीजनः समदुःखसुखः अयम् आत्मजः प्रतिपच्चन्द्रनिभः अहम् एकरसः तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः अस्ति ।
समेति । सखीजनः समदुःखसुखः त्वद्दुःखेन दुःखी । त्वत्सुखेन सुखीत्यर्थः ।